________________
योगवार्तिकम् ।
२७१ जकानां सत्त्वेपि आलम्बनाभावोपपादनायाभिमुखमिति विशेषणं तथा च सनिकृष्टं वासनाव्यञ्जकमनालम्बनमित्यर्थः । हेत्वादीन व्याख्याय सूत्रवाक्यार्थमाह । एवमिति । संगृहीताः व्याप्ताः । अत एषामभावे ऽत्यन्ताच्छेदे विदेहमुक्तिसमये तदाश्रय णां वियतानां वासनानामत्यन्तो. छेद इत्यर्थः । तथा च वासनानामनादित्वेपि मोक्षः संभवतीत्याशयः । सत्कार्याभ्युपगमात् वासनानामत्यन्तच्छेदो न संभवतीति शङ्कयोत्तरसू. नमवतारयति । नास्तीति । द्रव्यत्वेन संभवन्त्यः वस्तुत्वेन तिष्ठन्त्यः ।
अतीतानागतं स्वरूपतोस्त्यध्वमेदाहाणाम ॥ १२ ॥
भवेदप्ययं दोषो यदि स्वरूपापायो वासनानामस्माभिरुच्येत किं त्वत्यन्तातीततामात्रं यतोतीतानागतं वस्तु स्वरूपतोस्ति । नन्वेकदा विरुध्यमानानां धर्माणां कथमेकत्र सत्ता घटेत तत्राह । अध्यभेदादमाणामिति । भिनाध्यकत्वादविरोध इत्यर्थः । वर्तमानलक्षणानामेव धर्मा. णाम् एकदा विरोध इति भावः । अतीतानागतयोः स्वरूपानपाये प्रमाण दर्शतिभाष्यकारः। विदिति। भविष्यन्ती व्यक्तिरभिव्यक्तिर्यस्य तत्तथा। त्रयमिति । त्रयमप्येतद्वस्तु स्वरूपसत् यतो योगिनां प्रत्यक्षज्ञानस्य ज्ञेयं विषयः। अत्र तर्कमाह। यदि चेति । नेदमिति। शशङ्गादीनां ज्ञानादर्शना. दिति भावः । तथा चोतं ब्रह्ममीमासासूत्रेण 'नाभाव उपलब्धे रिति । ननु शुक्तिरजतादिवत बुद्धिपरिणामविशेष एव योगजधर्मादिजन्यो ऽतीतादिस्यले साक्षिज्ञानविषयोस्त्विति चेत्र । योगिना पूर्वानुभूतातीतादेः कालान्तपि प्रत्यभिज्ञायमानत्वात् । बाधकामावपि वस्तूनां बुद्धिमात्रत्वे वर्तमानावस्थवस्तूनापि बुद्धिमात्रताप्रसङ्गाच्च । न चानुपलम्भो बाधकः । योगिप्रत्यक्षसिद्धस्य सौल्येणानुपलम्भोपपत्तेः । तथा च सांख्यसूत्रं सौल्या. तदनुपलब्धि' रिति । नन्वतीतादावस्थायां नास्तीति प्रत्ययो बाधक इति । मैवम् । योगिप्रत्यक्षेण लौकिकप्रत्यक्षस्य बाधनात इदानी घटोतीत इत्यादिप्रतीतिबलात् नास्तीति प्रत्ययस्यातीततादिविषयकत्वाच्चेति । अतीतानागतसत्त्वस्वीकारे बीजान्तरमाह । किं चेति । भोगभागी यस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org