________________
২০০
योगवार्तिकम् । इत्यादिनेति । तदेवं मोक्षयोग्यं चित्तं तत्प्रसनेतरचित्तस्य बन्धप्रकारश्च दर्शितः पुरुषे चित्तद्वारकबन्धस्य स्वाभाविकत्वे मोक्षासंभवात् कर्मवासनादिमूलकत्वे तु तदुच्छेदतो मोक्षो घटतति इदानी मातोपपत्तये ऽनाट्यसंख्यानामपि वासनानामत्यन्तोच्छेद उपपादयते ।
हेतुफलाश्रयालम्बनैः संग्टहीतत्वादेषामभावे तदभावः ॥ ११ ॥
वासनाहेतुः संसारचक्रं तस्यापि हेतुरविझेत्यतो ऽविझैव हेतुशब्दार्थ इत्याह । हेतुरित्यादिना इत्येष हेतुरित्यन्तेन । हेतुः संसारचक्रमित्यन्वयः । संसारचक्रस्य ज्ञानकर्मवासनाहेतुत्वे हेतुगर्भविशेषणं प्रवृत्तमिदं षडरमिति । धर्माधर्मसुखदुःखरागद्वेषरूपेणारषदेणाविद्यादण्डप्रेरितेन भ्रमितं भवतीत्यतो वासनाहेतुरित्यर्थः । कुलालचक्रस्य हि दण्डेन शला. काप्रेरणे कृते वेगाख्यः संस्कारो भवति येन क्रियत्काल स्वयमपि भ्रमति तदुदेव भ्रामितं संसारचक्र वासनाहेतुरिति भावः । चक्रप्रवर्तकं दण्डमाह। अस्य चेति । नेत्री भ्रामिका तथा च सर्ववासनोदये ऽविद्यैव मूलकारणम् । अविद्याक्षये च विहिनिषिद्धकर्मणां सत्त्वे ऽपि संसारचक्रभ्रमणान वास. नोदय इत्याशयः । हेतुमुपसंहरति । इत्येव हेतुरिति । अविद्या हेतुर्वासनाया इत्यर्थः । फलं त्विति । यं पुरुषार्थमुद्दिश्य धायुत्पत्रं तदेव वासनानामपि फलं कर्मवासनयोरन्योन्यसहकारित्वादित्यर्थः । ननु फलेन कथं कारणस्य नियमरूपः संग्रहः कथं वा फलाभावे कारणाभावः फलाभाव. कालेपि कारणस्य सत्त्वादित्याशङ्कायामाह । न झपूर्वापजन इति । अप. र्वस्य सत उपजनो जन्म हि नास्तीत्यर्थः । तथा सत्कार्यस्वीकारणानागतावस्यफलेन व्याप्तो वर्तमानहेतुर्भवत्येवेति भावः । आश्रयमाह । मनसित्वति । साधिकारं पुरुषार्थवत् । अत्र प्रलये वासनासत्त्वस्यानुरोधेन वासनाश्रयमनसो नित्यत्वभिप्रेत्य साधिकारमिति विशेषणम् अन्यथाधिकारसमाप्ती मन एव न तिष्ठतीति विशेषणं व्यमिति । पालम्बनमाह । यदभिमुखमिति । मोक्षकाले कामिनीरूपादीनां रागवासनाव्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org