________________
योगवार्तिकम् । धर्मसाधनान्यपि गृहीतानि । श्रद्धादीनि श्रद्धादयः पूर्व व्याख्याताः श्रद्धावीर्य स्मृतिसमाधिप्रज्ञाः द्विपरीताश्चाश्रद्धादय इत्यर्थः । ननु श्रद्धादिमात्रस्य धर्मनिवर्तकत्वे किं प्रमाणं तत्राह । तथा चोक्तमिति । विहारा अयनसाध्याः निष्पादयधर्मनिवृत्ती हेतुः बाह्मसाधनेति। बाह्मसाधननिरपेक्षस्वभाव इत्यर्थः । तयोठित । तयोश्च बाह्याध्यात्मिकयोर्मध्ये मानसं कर्म बलीयः । यतो मानसं कर्म जानवैराग्यरूपतया सर्वातिशा. यीत्यर्थः । निरतिशयत्वमुदाहरति । दण्डकारण्यं चेति । दण्डकदेशस्तद्राजि* क्रोधान्विते शक्रः सप्तदिनशिलावृष्टया जनशून्यं चकार । अन्यत्सु. गमम् । तथा च श्रद्धादिसाधनजन्या योगधौ यथा चितविकाशसाधनं तथा बाह्मधर्म इति योगधर्मस्यापेक्षेति । तदुक्तं याज्ञवल्क्येन
सर्वधर्मान्परित्यज्य मोक्षधर्म समाश्रयेत् । सर्व धर्मास्सदोषाः स्युः पुनरावृत्तिकारकाः ॥ इति । इज्याध्ययनदानानि तपः स्वाध्यायकर्म च । अयं तु परमो धर्मा ययोगेनात्मदर्शनम् ॥ इति च । गीतायामपि । एषा तेभिहिता सांख्ये बुद्धिागे विमां शृणु । स्वल्पमप्यस्य धर्मस्य जायते महतो भयात् ॥
इति । यतश्च मानसं कर्मैव बलीयो ऽत एव जडभरतादेः समाधिनिष्ठतैव अयते ।
सविज्ञानसंपन्नः सर्वशास्त्रार्थतत्ववित् । अपश्यत्स च मैत्रेय आत्मानं प्रकृतेः परम् ॥ न पपाठ गुरुप्रोक्तां कृतोपनयनः श्रुतिम् । न ददर्श च कर्माणि शास्त्राणि जरहे न च ॥
• एतदृचा नित्यत्वात्कचिसाधु । तद्राने इति तु युक्तम् ॥ रा. शा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org