________________
योगवार्तिकम् । सतीश्वरोपाधेरपि परिच्छिन्नत्वापत्त्या ईश्वरस्य विभुत्वश्रुतिस्मृतियुक्तिविरोधात् । यथा तु वैशेषिका नैयायिकाश्चाकाशस्य विभुनित्यस्यापि श्रोत्रादिरूपेण कार्यतां देहेन सह गमनादिकं चौपाधिकतयाभ्युपगच्छन्ति तथैव विभुनित्यानां जीवचित्तानां मलिनदर्पणवदवियाकामकावत. प्रकाशशक्तीनां मन्दप्रकाशस्वभावानां वा बाह्मसत्त्वान्तरोपष्टम्भाज ज्ञाना. दिहेतुः परिणामविशेषः सादा जायते 'कार्यापाधिरयं जीवः कारणोपाधिरीश्वर'इति श्रुतेः स एव परिणामः स्वल्यमहच्छरीरभेदेन संकोचविकाशशीलो भवति इत्येवमाचार्यः पतञ्जलिरभ्युपगच्छतीत्यर्थः । अत्र च वृत्तिः प्रदीपशिखावव्यरूपः परिणाम इति प्रागेवोक्तम् । न तु तणदुयावस्थायी ज्ञानेच्छादिर्गुणः सर्गायुत्पचित्तस्य प्राकृतप्रलयपर्यन्तावस्थानस्येहलोकपरलोकगमनादेश्च श्रवणादिभिरस्या वृत्तेर्घटपटादाकारतैवा.
हाज्ञानशब्दवाच्येति । तदेवं वैशेषिकाणामाकाशवत अस्माकं चित्त. मपि नित्यानित्योभयरूपमिति सिद्ध, विशेषस्त्वयं यत्तैराकाशस्य त्ररूपेण जन्यता कर्णशष्कुल्योपाधिकोष्यते अस्माभिस्तु गुणान्तरसंभेदात यथार्थ एव महदादिरूपेण प्रकृत्याख्यसूत्मचित्तस्य परिणाम इष्यतइति । एतेन विभुनित्यत्वेप्याकाशस्य कार्यत्वमपि व्याख्यातम् । शब्दादिहेतुपरिणामविशेषरूपेण कार्यत्वं श्रुतिस्मृतिसिद्धं विरोधाभावादिति दिक् । ये तु वैशेषिकाश्चित्तम् अण्खेव सर्वदाभ्युपगच्छन्ति । तन्मते एकदा पञ्चेन्द्रियैः पञ्चवृत्त्यनुपत्तिः चक्षुःश्रोत्राविरुद्धदेशतया अणास्तदुभयसंब. न्धस्य एकदानौचित्यात इत्यादीनि दूषणानि ऊह्मानि । 'युगपज्जाना. नुत्पत्तिर्मनसो लिङ' मिति न्यायसूत्रे च सदा सर्वजत्वाभाव एव मनाख्यकरणे लिङ्गत्वेनोपन्यस्तो न त्वेकर्दोन्द्रयद्यवृत्त्यभावः हेत्वसिद्विदोषापत्तेरिति । वृत्ती संकोचविकाशयोः कारणमाह । तच्चेति । तच्च संकोचविका. शनं धर्माधर्मादिरूपनिमित्तापेक्षया भवति अनादित्वाच्चात्र नान्योन्याश्रय इति । ननु धर्मादेरेव चेच्चित्तत्तिविकाशाई शरीरादिधर्मेस्तुतिदानादिभिरेव ज्ञानादिसंभवे दुष्करयोगापेक्षा न युक्तत्याशङ्कायामाह । निमित्तं चति । अभिवादनादीति । आदिशब्देन निन्दापरस्वादानातिक्रमादीन्य.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org