________________
योगवार्तिकम् ।
२६०
मिति । आशीर्नित्यत्वे तद्वासनानादित्वे तथाशिषो स्वाभाविकत्वे वा युक्तिं पृच्छति । कस्मादिति । तत्रादावाशीर्नित्यत्वेन वासनानादित्वं यथा सि यति तदाह । जातेति । जातमात्रानुमानादयसमर्यो बालको यदि न पूर्वजन्मन्यननुभूतमरणधर्मकः स्यात् तथा कथं तस्य द्वेषतत्कारणमरणदुःखस्मरणाभ्यामेवोत्पाद्यो मरणत्रासेो यथेोक्ताशीरूपः संभवेत्पर्व पूर्वभवीय मर
दुःखवासनां विनेति शेषः । अस्वाभाविकत्वे तु युक्तिमाह । न चेति । नापि स्वाभाविक वस्तु निमित्तसापेक्षं भवति भयरूपात्तु यथेोक्ताशीः खङ्गप्रहारदर्शनादिनिमित्तमपेक्षते अन्यदानुपपत्तेरतो न स्वाभाविकीति शेषः । सूत्रत्रयःथे शिष्यावधारणायोपसंहरति । तस्मादनादीति । निमित्तं विपाकोन्मुखं कर्म प्रतिलभ्य गृहीत्वा । ननु वासनाया अनादित्वं तदा भवेत् यदि तदाश्रयं चित्तं नित्यं स्यात् प्रतिशरीरं च भिन्नं न स्यात् । तदेव तु न पुम्प्रयतिरिक्तस्य सर्वस्य कार्यत्वाभ्युपगमात् । प्रणुमहच्छरीश्योः परिणामभेदेन भेदवच्चरीर तुल्य परिणामचित्तस्यापि भेदसिद्धेश्चेति । तदा। सांख्यपरिमाणमाह । घटेति । प्रतिपुरुषं सर्वशरीर साधारणमेकैकमे चित्तं यथापि घटप्रासादरूपस्वल्पमहदाश्रयभेदेन प्रदीपवत् स्वल्पमहच्छरीरभेदेन चित्तं स्वल्पं महत्परिमाणं भवति तथा च नित्यत्वमपि तस्य प्रदीपपरमाणुवदेव द्रष्टव्यम् । तच्च परमाणुतुल्यसूक्ष्मावस्यायां प्रकृतेः सत्त्वरूपांशविशेषतां प्राप्नोतीति न प्रकृतिपुरुषातिरिक्तस्य निन्यतेति भावः । एवमपरे सांख्या आहुरित्यर्थः । ननु विभ्वेव चित्तं कथं नेष्यतइत्याकाङ्क्षायामाह । तथा चेति । तथा चाणुत्वस्यापि संभवात् । पूर्वी परसर्गयोरन्तरा प्रलयेऽभावो लयः संभवति । तथा संसारः संसरणम् इहलोकपरलोकसंचारश्च सक्रियत्व त्संभवति विभुत्वे चैतदुभयं न घटेतेत्यर्थः । स्वशास्त्रसिद्धान्तमाह । वृत्तिवेति । विश्वाकाशर्वाच्चित्तं प्रतिनियतपुरुपभोग्यत्वात् पुरुषभेदेनानन्तञ्च ।
चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् । द्वाभ्यां शून्यतमं विद्धि चिदाकाशं वरानने ॥
इत्यादिभिः शास्त्रेषु चित्तविभुत्वावगमात् । अन्यथा परिच्चिचत्वे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org