________________
२६६
योगवार्तिकम् । स्यापेक्षणात उदयपदं तथा च वृषदंशविपाकारम्भः स्वव्यञ्जकेनैवाभिव्यक्तो वर्तमानावस्थो भवति न तु पर्वदेहत्यागमात्रेण झटित्येवेति नियमो ऽतः स यदि जातिशतादिव्यवधानेन व्यजकं प्राप्य उदियात् तदा द्रागित्येव शीघ्र पूर्वप्राप्तवृषदंशविपाकेन जनितान् संस्कारान् गृहीत्वैव व्यक्तो भ. वति व्यवहितानामपि वासनानां सदृशकर्मव्यात्वादित्यत अानन्तर्यमेवार्थाद्ववतीत्यर्थः । सादृश्यं चात्रैकजातीयफलकत्वम् । अभिव्यञ्जकमित्यस्य च विवरणं निमित्तीभूतमिति प्रकृतेरेवोपादानत्वादिति भावः । आनन्तयं तत्कारणं च व्याख्याय तत्र प्रमाणं पृच्छति । कुत इति । कुतः प्रमाणादित्यर्थः । सूत्रावयवेनोत्तरमाह। स्मृतिसंस्कारयोरिति । ननु मनु. ष्यजन्मन्येवाव्यवहिते वृषदंशवासनास्तु तत्राह । यथानुभवा इति । नन्वेवं सति मनुष्यवासनयैव वृषदंशविपाको भवत्वव्यवहितत्वादिति तत्राह । ते चेति । ते च संस्काराः काशयानुरूपा एवापेक्षिता इत्यर्थः । नन्वेवमपि मनुष्यसंस्कारादेव वृषदंशविपाकनिर्वाहिका स्मृतिरस्तु तथापि कर्माशयानुरूपस्मृतिहेतुत्वेन कर्मानुरूपोपपत्तिरिति तत्राह । यथेति । एकरूपत्वं प्रसाध्य सूत्रतात्पयोर्थ व्याचष्टे । इति जातीति । ननु सजातीयवासनैव चेद्विपाकनिर्वाहिका तीकविपाककालएव स्मृत्युत्पादेन पूर्वसंस्कारनाशात कथं पुनस्तज्जातीयं विपाकान्तरमित्याशयेनोक्तं,स्मृतेश्च पुनः संस्कारा ति। परमार्थतस्तु स्मृतेर्न संस्कारनाशकत्वम् इपि पूर्वोक्तं स्मर्त्तव्यं, स्मृतिसंस्का. राः स्मृतिहेतुसंस्काराः कर्माशयत्तिलाभात् कर्मशियोद्बोधादिति । नन्वेवं सकलजन्मार्थमेव वासनास्वीकारे ऽनवस्थाप्रसङ्ग इत्याशङ्कामपाकरोति ।
नासामनादित्वं चाशिषा नित्यत्वात् ॥ १० ॥
व्याचष्टे । तासामिति । नित्यत्वात्पतिजन्मनियतत्वादित्यर्थः । अनादित्वं च प्रवाहरूपेण बोध्यम् । यद्यप्याशी नत्यतया तहेतुवासनाया एवानादित्वं सिद्धति न तु भोगहेतुवासनानां तथापि तत्रानवस्थायाः प्रामाणिकत्वेनादोषत्वे तदृष्टान्तेनान्यासामप्यनादित्वमनुमेयमित्याशयः । नन्वन्याष्णयदियमाशीश्चित्तस्य स्वाभाविक्येव भवतु तत्राह । येय.
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org