________________
योगवार्तिकम् ।
२६५
इत्यादिस्मृतेः । ननु संन्यासाश्रमिमात्राणामविद्या दिक्लेशसत्त्वे तेषामपि धर्माधर्मोदयात् क्लेशतये च गृहस्थादिकर्मणामपि अशुक्ला प्यात्वाच्चेति संन्यासिकर्मणामशुक्ला कृष्णत्वे हेतुमाह । क्षीणक्लेशानामिति । शमूलः कर्माशय इत्युक्तत्वादिति भावः । चरमदेहानामिति, स्वरूपा ख्यानम् । स्वोक्तं संन्यासिनामिति हेतुं विवृण्वानः सूत्रं व्याचष्टे । तत्रेति । तत्र चतुर्बिधकर्ममध्ये योगिन एवाशुकमकृष्णं च कर्म फलत्यागात् अहं करोमीत्य स्वीकाराच्चेत्यर्थः । विहितं हि कामनायां सत्यामेव स्वर्गादिफलं ददाति विहितं निषिद्धं चोभयमप्युपादानाख्याभिमाने सत्येव फलं ददातीति भावः ।
त्यक्त्वा कर्म फलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोपि नैव किंचित्करोति सः ॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमान् लोकान् न हन्ति न निवध्यते ॥
इति शास्त्रमत्र प्रमाणम् । ननु तिष्ठत्वयोगिनां कर्म तथापि वासनानभिव्यक्त्यादिनापि कदाचिन्मात्तः स्यादिति किमर्थं नियमेन ध्यानजस्यानाशयचित्तस्यापेक्षेत्यत आह । ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिवसनानाम् ॥ ८ ॥
、
ततइतिपदं व्याख्याय तद्विपाकानुगुणानामेवेति गृहीत्वा व्याचष्टे । यज्जातीयस्येति । कर्मविपाकमनुशेषतइति अनुकुर्वन्ति तन्मुखनिरीक्षका इति यावत् । विपच्यमानं फलोन्मुखं चर्चे विचारः । बहुजन्मव्यवहितानामपि वासनानामभिव्यक्तिं कर्मफलान्यथानुपपत्तिप्रमाणेन साधयति । जातिदेशकालव्यवहितानामप्यानन्तयें स्मृतिसंस्कारयेोरेकरूपत्वात ॥ ८ ॥
जात्यादिभिर्व्यवहितानामपि
वासनानामानन्तर्यमव्यवहितवत्
कार्यकारित्वं भवति अन्यथा कर्मफलानुपपत्तेः स्मृतिसंस्कारयेोरेकरूपत्वादित्यर्थः । एकरूपत्वमेकाकारत्वमिति । तत्रादौ भाष्यकारो जात्यादिव्यवहितत्वमुदाहरचेवानन्तर्ये कारणं प्रदर्शयति । वृषेत्यादिना । आरम्भ एवाज्ञ्जन
Jain Education International
•
For Personal & Private Use Only
www.jainelibrary.org