________________
२६४
योगवार्तिकम् । योगिनो निष्यत्रयोगस्य तीणलेशस्य कर्म कायादिव्यापारोऽशुक्ला. कृष्णः पुण्यपापाहेतुः। इतरेषामयोगिनां जन्मादिसिद्धानामपि त्रिविधम् । यथायोग्यं कर्म शुष्णयोः प्रत्येकसमुच्चयाभ्यां त्रिविमित्यर्थः । तदे. तवाचष्टे । चतुष्यादिति । कर्मसामान्यं चतुरंशमित्यर्थः । क्रमेण निर्दि. शति । कृष्णेति । कृष्णा दुःखफलदा तमोवर्धकत्वात् । शुभकृष्णा सुखदुःखफलदा रजोवर्धकत्वात् । शुक्ला सुखफलदा सत्त्ववर्द्धकत्वात् । अशुकाकृष्णा च सुखदुःखफलशन्या गुणाहेतुत्वादिति । अत्राशुक्लाकष्णयोः सुखदुःखफलस्यैव प्रतिषेधेन योगिकर्मणामपि सत्त्वशुद्धिः फलं न निक्रियते । न च ज्ञानेनैव सत्त्वशुद्धयाख्यः पापक्षयो भविष्यतीति वाच्यम् । तथापि कर्मणामपि ज्ञानातया सत्त्वशुद्धिहेतुत्वात् । आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठ इति साहित्यश्रुतेः ।
कायेन मनसा बया केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥
इति स्मृतेश्च । अन्यथा वसिष्ठादीनां ज्ञानिनां कर्मानुपपत्तेश्च । न च लोकसंयहाथ तेषां कर्म, लोकसंग्रहस्य स्वतोऽपुरुषार्थतया कैवल्यहेतु. सत्त्वशुद्धिद्वारैव पर्यवसानादिति । चतुर्विधं कर्म क्रमेणादाहरति । दुरात्मनां पापिनां, बहिःसाधनसाध्येति । देहेन्द्रियमनोभ्यो बहिर्यानि साधनानि तत्साहोत्यर्थः । अज्ञानां सकामानामित्याल्लभ्यते । ज्ञानिनां निष्कामानां, कर्म सामान्यमेवाशुक्लाकृष्णमिति वयमाणात् । ननु बहिःसाधनसाध्यानामपि वेदोक्ततया कथं कृष्णसंकरस्तत्राह। तत्र पति । बहियांगो. पकरणसंपादने पिपीलिकादीनामप्यन्ततो ऽपरिहाया पीडा भवतीत्यस्ति तत्र पापकर्माशयः देवतादीनामाराधनादिना अनुग्रहात पुण्यकर्माशयस्तु प्रसिद्ध एवोत सांकमित्यर्थः । अन्तयागरूपायां शुक्लायां पापासांकर्य बीजमाह । सा हीति । संन्यासिनामिति । संन्यासस्त्यागः। अभिमानफलयोस्त्यागिनामित्यर्थः ।
कार्यमित्येव यत्कर्म नियतं क्रियतेर्जुन । | सई त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org