________________
योगवार्तिकम् । संहरेच्च पुनस्तानि सूर्यो रश्मिगणानिव । इति । अनेकचित्तनिर्माणेपि विशेषमाह ॥ प्रत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५ ॥
व्याचष्टे । बहूनामिति । तेषां बहूनां कथमेकचित्ताभिप्रायानुसारिणी प्रत्तिः स्यादित्याशयेन योगी पूर्वसिद्धं यच्चित्तं तदेव सर्वचित्तानां प्रयोजकं निर्मिमीते नियामकं करोति ततस्तु चित्ताभिप्रायात तेषामवा. न्तरचित्तानां प्रवृत्तिरित्यर्थः । ऐश्वर्यनिर्वाहार्थमनेकचित्तेष्वन्तयामिविधया स्थितमेकं चित्तं तेषामुत्तिस्थितिसंहारं करोतीति अत्र च प्रमाणं प्रागे. व दर्शितं 'संहरेच्च पुनस्तानि सूर्या रश्मिगणानिति । एतेन विष्ण्वादीनामंशावतारा अपि व्याख्याताः तेषु ह्मात्मन एकत्वेपि अंशांशिव्यवहार उपाध्योरंशांशिभावनोपाधिकः न पुनरितरजीवेष्विव स्वत एवेति । तदेवमुक्तेषु पञ्चसु सिद्धचित्तेषु मध्ये ऽपवर्ग योग्यचित्तमवधारयति ।
तत्र ध्यानजमनाशयम ॥ ६ ॥
ध्यानजं ध्यानसंस्कृतम् आशयाः क्लेशकर्मवासनाः न सन्त्यस्मिबित्यनाशयं ध्यानसिद्ध चित्तमेवानाशयं भवति योगेनैव ज्ञानोत्पत्त्या वासनोच्छेदसंभवात् न मन्त्रादिभिरित्यर्थः । व्याचष्टे । पञ्चवियामिति । निमा.
चित्तमत्र निर्माणतचित्तं न निर्मीयमाणं चित्तं तस्य सिद्धकार्यत्वेन सिद्धत्वानियमात् । अनाशयमित्यस्यार्थमाह । तस्यैवेति । रागादेः प्रवृ. त्तिर्यस्मात्संस्कारात्सरागादिप्रवृत्तिराशयस्तस्यैव नास्तीत्यनाशयमित्यर्थः । अनाशयत्वस्य किं प्रयोज्यामित्याकाङ्क्षायामाहू । नात इति । सबन्ध उत्पत्तिः । ततश्चापुनर्जन्मरूपो मोक्ष इति शेषः । पापपुण्यानुत्पत्ती हेतुमाह । तीणक्लेशत्वादिति । दग्धक्लेशकर्मवासनत्वादित्यर्थः । अदृष्टोत्यतावण्यदृष्टान्तरं कारणमदृष्टरूपस्य कर्माशयस्य कार्यमाने हेतुत्वात् । तति निद्धारणसप्तम्यर्थमाह । इतरेषामिति । मन्त्रादिसचित्तानामित्यर्थः । अत्रैव हेतुपरतयोत्तरसूत्रमक्तारयति । यत इति ।
कौशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम ॥ ७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org