________________
२६२
योगवार्तिकम् । . निर्माणचित्तान्यस्मितामात्रात ॥ ४ ॥
. स्वसंकल्येन निर्मितचित्तानि निर्माणचित्तान्युच्यन्त तानि बहूनि निर्माणदेहसमसंख्यानि भवन्ति तेषां कारणमाह । अस्मितामात्रादिति । अहंकारादित्यर्थः । मात्रशब्देन मनोव्यात्तिः संकल्पमात्रेण मनसो निमित्तमात्रत्वादिति । अत्र चित्तशब्दो मनोमात्रवाची अहंकारप्रतिकत्ववचनाद्वाहकाग अघि अनेके स्वप्रकृतिप्रधानबयापूराद्धवन्तीति प्रत्येतव्यं युक्तिसाम्यादिति। भाष्ये सचित्तानि शरीराणीत्यर्थः, शेषं सूत्रएव व्याख्यातम् । ननु निमातृचित्तस्यैकस्यैव प्रदीपद्विसारितया कायव्यहेषु वृत्तिसंभवात् किमर्थ देहभेदेनान्तःकरणभेदो ऽभ्युपगम्यते। न हि नैयायिकानामिवास्मा. कम् अन्तःकरणभेदेनैक्रदानवहितनानाशरीराधिष्ठानं नसंभवेदिति। अत्रो च्यते । समाधिभोगयोजानाज्ञानयोश्चैकदैकस्मिंश्चित्ते विरोधेन चित्तभेदः सिद्धयति । अत एव सर्वजस्यापि विष्णाः स्वसंकल्पनिर्मितचित्तभेदेन रामशरीरे क्रियत्कालमज्ञानमुपपत्रमिति । यदा तु योगी जीवभेदानेव स्वदेहानिर्मितेषु देहेन्द्रियसंघातेषु अनेकेषु योजयति तदा पुनः सुतरामेवाने. कान्तःकरणमपेक्षतइति कदाचित्तु योगिनामेकान्तःकरणेनैव नानादेहेषु व्यवहारं न निराकुर्मः स्वतन्त्रेच्छस्य नियन्तुमशक्यत्वादिति । अथैवं सन्या. मनानात्वकल्पना व्या चित्तभेदेनैव ज्ञानाजानायुपपत्तेरिति । मैवम् । वृत्तिविरोधादीन मोपाधिकत्वेनाविरोधोपि विषयानुभवाननुभवयोः स्वप्रतिविदितदुःखभोगतदभावयोर्बन्धमोक्षयोश्च साक्षाच्चेतननिष्ठयोर्बि रोधेनैवात्मनानासिद्धेरिति दिक् । तदेत छरीरभेदेन नानावितैर्विरुद्धनानाकार्यकारित्वं योगिनां स्मर्यते ।
एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः । भूत्वा यस्मात्तु बहुधा भवत्येकः पुनस्तु सः ॥ तस्माच्च मनसो भेदा जायन्ते चैतएव हि । एकधा तद्विधा चैव त्रिधा च बहुधा पुनः । योगीश्वरः शरीराणि करोति विकरोति च । प्राप्नुयाद्विषयान कैश्चित् कैश्चिदुयं तपश्चरेत् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org