________________
योगवार्तिकम् ।
२६१ परस्परष्यभिचारानिमित्तानां न साक्षात्कारणत्वसंभवः । तृणारणिम. ण्यादिषु चान्यादिकारणत्वे अन्योन्यभिचारो लोकसिद्ध एवास्ति अतः सहकार्यप्रयुक्ता प्रतिरव परिणामे कारणं स्वतन्त्रेति सिद्धम् । ननु प्रकृतिश्चेत स्वतन्त्रा केन प्रकारेण हि धर्मेश्वरयोगिसंकल्यादीनां प्रकृतिपरिणामहेतुत्वमिति पृच्छति । कथं तीति । सूत्रार्दुनोत्तरमाह । वरणभेदस्तु ततः क्षेत्रिकदिति । अपां पूर्णादिः पूर्णात्, केदारान्तरस्य विशेषणं सर्मामत्यादित्रिकम् । अपकर्षति क्षिपति प्रावरणमालवालम् । स्वस्वं विकारमिति । स्वस्वसजातीयं विकारं व्यामन्ति विकारप्रसूतीनां परिणामान्तमित्यर्थः । प्रकृतकार्यान्द्रयप्रकृत्यभिप्रायेणोक्तं गुणाद्गणान्तर. मालावयन्तीयाप बोध्यम् । क्रियावदारम्भकसंयोगोपि प्रकृतेः स्वत एव भवतीयपि तेनैव दृष्टान्तेन प्रतिपादयति । यथा चेति । न तु प्रतिप्रवृत्ताविति । संयोगविशेषेष्वपीति बोध्यम् । तथा चाधर्मादिप्रतिबन्धनिवृत्तिद्वारेणैव धर्मादिः परिणामकारणमिति सिद्धम् । अयं भावः । यथा संस्कार एव स्मृतिहेतुः सदृशादृष्टचिन्तादयस्त्वननुगततया संस्कारस्यो. द्वोधकमात्राः । उद्बोधश्च निद्रादिदोषरूपावरणभङ्गः । तथैव प्रकृतिरेव जगत्कारणं कालकमश्वरादयस्तु प्रकृतेः कार्यजननशक्त्युद्धोधकाः तत्र धर्माधी स्वधर्मविरुद्धधर्मान्तररूपावरणभड़ेनोवोधको ईश्वरस्तु साम्यपरिणामादिरूपाखिलावरणभङ्गेनोवोधकः कालादयस्तु धर्मायुद्धोधकतया दण्डादयस्तु कार्यान्तराभिक्तिप्रतिबन्धकतयेत्येवं यथायोग्यमहनीयम् । एतदेव निमित्तकारणतेति गीयते अव्यभिचारात्तु संयोगस्य समवायिकारणत्वमिष्यतएव द्वारत्वात् न तेन प्रकृतेः स्वातन्त्र्यहानिरिति । धर्मस्या. धर्मरूपप्रतिबन्धापसारणद्वारा कार्यान्द्रयपरिणामनिमित्तत्वे उदाहरणमाह। अत्र नन्दीति । नन्दिनामा मनुष्य ईश्वरो जात इति नन्दीश्वरः । एवं नहुषाजगरोपि व्याख्येयः । सिद्वादीनां कार्योन्द्रयपरिणाश्चिन्तितः । इदानी सिद्धानां चित्तपरिणामनिर्णायकं सूत्रमवतारयति । यदेति । एकमनस्का निर्मातृमनोमात्रेणैव व्यवहारभाजः। अनेक्रमनस्काः निर्मातृमनोतिरिक्तप्रातिस्विकमनोभाजः। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org