________________
२६०
योगवार्तिकम् । तीनामनुप्रवेशाद्वतीति दृष्टम् । अतो योगीश्वरादीनामपि देहेन्द्रिययोः परिणामान्तरकाले धादिसापेक्षा कार्यान्द्रयप्रकृतयः स्वस्वं विकारमनुराहुन्ति स्वस्वजातीयां कायादिप्रकृतिमुपकुर्वन्ति आपरणानुप्रवेशेनेत्यर्थः । तत्र कायप्रकृतिः पञ्चभूतानि इन्द्रियप्रतिश्चास्मिति । दृष्टश्च लोके तृणराििनक्षिप्तस्य बहिकणस्य क्षणादेव प्रकृत्यापरण गगनव्यापी परिणामविशेष इति । एतेन वामनादावतारादीनां तणादेव त्रिभुवनव्यापित्व. विश्वरूपत्वादिकं मार्कण्डेयादिभ्यो विष्णुना मायाप्रदर्शनं च प्रकृत्या. पूरेण डिन्माला यामिव क्षणभरणेति व्याख्यातम् । अगस्त्यादीनां समुद्रपानादिकं च तोयादिप्रकृत्यपसरणेनेति व्याख्येयम् । एवमेव विश्वं परमेश्वरस्य माति गीयते । ऐन्द्रजालिकवत तणेनैव प्रकृत्यापूरापसा. रणादिभिर्जगदन्ययितुमुत्पादयितुं विलापयितुं च परमेश्वरः संकल्पमा. त्रेण शक्नोति सूक्ष्म दृष्ट्वा तु प्रतिक्षणं तथा करोत्येवेति पश्यन्तु योगिनो भगवत्रमिति दिक् । ननु योगजधर्मेबलात् प्रकृतय आकृष्यन्तइति प्रकृतिस्वातन्त्र्यसिद्धान्तहानिः । तथा स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्तीत्यादिश्रुतरपि प्रतिस्वातन्त्र्यहानिरित्याशङ्कायामाह।
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत ॥ ३॥
व्याचष्टे । नहीति । धर्मादिरूपाणां निमित्तानां प्रकृत्यापरकत्वे युक्तिमाह । न कार्यणेति । परतन्त्र स्वतन्त्रस्य प्रवर्तकमयुक्तमित्यर्थः । किं चाकाशे द्रव्याणामनारम्भिकाप्यनुतणमणानां क्रिया सर्वसंमता। न च तत्र धर्माधी वा कारणं कस्यापि भोगाहेतुत्वात् । नापि तत्रेश्वरादिसंकल्पादिः कारणं गौरवात् । अतो निरन्तराणुक्रियोपपत्तये लाघवेन गुणत्वे. नैध सामान्यतः प्रवृत्तिकारणत्वात प्रकृतिस्वातन्त्र्यं सिद्धम् । अपि च कदा. चिदण्डचक्रादिकं विनापि योगिसंकल्पादेव घटो जायते आदिसगै चेश्वरसंकल्पेन बीजान्तराणि विनैव सर्वाणि बीजानि उत्पदान्तइति
* तडिन्मालयेवेति सुगमम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org