________________
२५९
योगवार्तिकम् । अथ चतुर्थपादः। हानोपायान्तं व्यहत्रयमतिविस्तरतः पादद्वयेन व्याख्याय हानं तु स्वरूपत एव तत्र संपादुक्तं न तु तस्याशेषविशेषरूपो व्यह इत्यतो हानविस्तरार्थ चतुर्थपादारम्भः । तत्रादौ कैवल्ययोग्यं चित्तं निधायितुं पञ्चप्रकारां सिद्धिमाह । अनेनैव प्रसङ्गेन जन्मादिसिद्धापेक्षया यथोक्तसमाधिसिद्वेरुत्कर्षापि सेत्स्यति ।
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १ ॥
क्रमेण सिद्धीव्याचष्टे । देहान्तरितेति। ऐहिकेन कर्मणा देवादिदेहान्तरे जन्ममात्रेण भवन्ती अणिमादिसिद्धिर्जन्मजेत्यर्थः । ओषधिसिद्धिमाह । ओषधिभिरिति । असुरभवनेषु रसायनं यदोषधिद्रव्यं तदुद्भवेत्ये. वमादिः सिदिरोधिभिरित्यर्थः । अमुरभवनेष्विति प्रायिकाभिप्रायेणातम् । अत्राप्योषधीभिः सुवर्णादिसिद्धीनां भावात् । शेषं सुगमम् । पञ्च. विधसिद्धिसाधारण्याय पूर्वपादो विचारितः । सिद्धिप्रकारोस्मिन्नेव प्रस. के किर्यादः सूत्रैः प्रतिपादनीयः तत्रादौ निर्माणकार्यानर्मार्णान्द्रययो. रुत्पत्तिप्रकारप्रतिपादकं सूत्रं पयित्वोत्यापति। तत्र कायइति । निर्माणचित्तोत्पत्तिप्रकारस्य सूत्रान्तरेण वक्ष्यमाणत्वादत्र कार्यान्द्रययोरेव ग्रहणम् ।
जात्यन्तरपरिणाम: प्रकृत्यापरात् ॥ २॥
मनुष्यादिजातिरूपः परिणामः स प्रकृत्यापूरादति न तु संकल्पमात्रादित्यर्थः । मनुष्यादिजातिरूपेण पूर्व परिणम्य स्थितानां कान्द्रियाणां कामरूपतादशायां यो देवतिर्यगादिजातिपरिणामः स प्रकत्यापूरादति न तु संकल्पमात्रादित्यर्थ इति व्याख्यान्तरम् । अणिमा. दिरूपपरिणामविशेषश्च प्रकृत्यपगमादियाप बोध्यम् । अत्र च जात्य. न्तरशब्देन योगिनां गजतुरङ्गादिवैभवं तथा कायव्यहादिकमपि याह्यम् । आपूरशब्देनापि प्रकृतीनां संहननमपि याह्मम् । कायव्यहे च श्रुतिः “स एकधा भवति त्रिधा भवति पञ्चधा शतं दश चैकश्च सहस्राणि च विंति". रित्यादिरिति । प्रकृत्यापरे हेतुं वदन सूत्रं व्याचष्टे । पूर्वपरिणामेति । यतो लोके वल्मीकादीनां क्षुद्रपरिणामापायें तदुत्तरमहापरिणामोत्पत्तिर्भूतप्रकृ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org