________________
२५८
योगवार्तिकम् ।
तादृशो भोगो नास्तीति शुद्धिसाम्यमित्यर्थः । अत्र साक्षितामात्ररूपभोगव्यावर्त्तनायोपचरितेत्युक्तं पुरुषस्य प्रत्ययाविशेषरूप एव हि भोग उपचारतो ऽविवेकस्योपाधिधर्मत्वात् । चिदवसानतारूपस्तु सांख्यसूत्रोक्तो भोगः स्वत इति, तथा च साक्षी निरभिमान एवं चित्तस्य निरभिमानत्वमेव मोक्षहेतु नैश्वर्यादिकमिति पर्यवसितोर्थः । एतस्यामिति । एतस्यां शद्विसाम्यावस्यायां जातायां प्रारब्धप्रतिबन्धनिवृत्त्यनन्तरं कैवल्यं भवति ईश्वरानी खरादिसाधारण्येनेत्यर्थः । स्वतन्त्र जानक्रियाशक्तिमानत्रेश्वरः । ज्ञाने पुनरिति । ज्ञानान्तरे काप्यपेक्षा नास्तीत्यर्थः । ननु विवेकसाक्षा त्कारहेता तत्संयमे सत्यवश्यमेव सार्वज्ञादिकं भविष्यति तत्कथमनीश्वरस्य वेत्युच्यतइति चेत् न । संयमे सत्यपि कामानां बिना सिझनुत्पत्तेः यागे सत्यपि स्वर्गनुत्पत्तिवत् । किं च यमनियमाद्व्यङ्गवैगुण्यादपि सिद्धानियमः तादृशाङ्गवैगुण्येप्यभिमाननिवृत्त्याख्यदृष्टद्वारा कदाचिन्मातः संभवत्येवेति । ननु चेत् कैवल्ये सिद्धापेक्षा नास्ति तर्हि किमर्थं मोक्षाख्यहानस्योपायमध्ये सिद्धीनां कथनमित्याशङ्कायामाह । सत्त्वशुद्धिद्वारेणेति । सत्त्वस्य बुद्धिसत्त्वस्य शुद्धिर्वैराभ्यादि तद्वारेण मातापयोगितयेति शेषः । ऐश्वर्यं क्रियाशक्तिरणिमादि ज्ञानं विवेकज्ञानान्तमुपक्रान्तं प्रोक्तं सूत्रजातेन । परमार्थतस्तु सत्त्वपुरुषान्यताज्ञानादेवाज्ञानन्निवृत्त्यादिदृष्टद्वारा कैवल्यमित्यर्थः । अत्र चरिताधिकारा इत्यादिना कैवल्यस्वरूपमुक्तं कैवल्ये पुरुषार्थमाह । तदेति । तदा सुखदुःखमोहात्मक सत्त्वादिगुणादर्शने चित्तज्योतिर्वियेोगात्स्वरूपमात्रज्योतिरतो दुःखादिप्रतिबिम्ब रूपमलरहितः सन् केवली भवति केवलेषु मुक्तेषु नित्यमुक्तईश्वरे वा विभागं गच्छतीत्यर्थः : । तथा च दुःखभोगनिवृत्तिरेव पुरुषार्थ इति । व्याख्यातानि हानोपायस्य विवेकख्यातेः साधनानि योगस्य चाङ्गानि यमादीनि समिद्धीनि ॥ इति श्रीपातञ्जलभाष्यवार्त्तिके श्रीविज्ञानभित्तुनिर्मिते विभूतिपादस्तृतीयः ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org