________________
योगवार्तिकम् ।
২৩ कथं योगप्रदीपतया विवेकजज्ञानांशतया च न निर्दिष्टा इति चेत्र । योगवहिकणत्वेन तेषामत्यल्पत्वस्य विवक्षितत्वात् । प्रकृष्टमितया योगप्रदीपानामासामंशत्वेनैव च कणतुल्यभमीनामंशांशत्वमपि प्राप्मिति भावः । विष्णुपुराणे च सर्वेषामेवेतरज्ञानानां प्रदीपतुल्यत्वविवक्षया ब्रह्मविवेकजज्ञानस्य सूर्यतुल्यत्वं प्रोक्तम्
अन्धं तम इवाजानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस्तथा ज्ञानं द्विप्रर्षे विवेकजम् ॥
इति । इन्द्रियोदमित्यन्येषामपि ज्ञानानामुपलक्षणम्। तदेवं संयमानां सिद्धिरूपा विभूतयो ऽतीतानागतज्ञानाया विवेकजज्ञानान्ता ज्ञानक्रियैश्वर्यरूपा विस्तरेणोक्ताः। तत्रायं संशयः किमेतासां विभतीनामनन्तरमेव मोक्षोभवति आहोस्विदेततिरेकेणापीति। तत्र निर्णायकतयोत्तरसूत्रमवतारयति । प्राप्तविवेकेति। सूत्रेण सहान्वयः। विवेकजज्ञानाख्योत्तमसिद्धयपेतयैव सुतरामितरसिद्धानपेक्षा कैवल्यइति भाष्याशयः ।
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥ ५४ ॥
बुद्धिसत्त्वस्य पुरुषेण सह समाना यदा शुद्धिर्वयमाणरूपा विवेकसा. तात्काराष्ट्रवति तदैव मोक्षो न तत्र सिद्धापेक्षेत्यर्थः । क्क चिदितिशब्दः सूत्रान्ते तिष्ठति स च हानोपायव्य हसमाप्तिसूचनार्थः। शुद्धिसाम्यं हेतुतः स्वरूपतश्च व्याचष्टे । यति। निर्द्धतो रजस्तमोद्रव्यरूपो मलो यस्य तत्तथा। अत एव विवेकख्यातिमात्रे अधिकारः कर्त्तव्यता यस्य न तु सिद्धयादी तत्तथा ततश्च दग्धानि अनागतक्लेशरूपाणि विपाकाख्यसंसारबीजानि यत्र तत्तथा । एवं यदा बुद्धिसत्त्वं भवति तदा शुझा पुरुषस्य स्वरूपमिव तत् भवति अनेन शुद्धिसाम्ये हेतुरुक्तः बुद्धेर्दुःखादयात्मकत्वात्रात्यन्तं शुद्धिसाम्यं कदापीत्येतत्यतिपादनायेवशब्दप्रयोगः । यस्मिवंशे साम्यं तदाह । पुरुषोत । बुद्धिधर्मत्वात्पुरुषे उपचरितमात्रस्य प्रत्ययाविशेषाख्यभोगस्याभावः पुरुषस्य शुद्धिः * बुद्धरपि जीवन्मुक्तदशायां विवेकित्वेन
* बुद्धिधर्मत्त्वादित्यादि शुयन्तं पुस्तकान्तरे नास्ति ।
मत भवति अनेन त्यतत्त्रतिपादनायव उपरितमात्रस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org