________________
२५६
योगवार्तिकम् । तारकं सर्वविषयं सर्वथा विषयमक्रम चेति विवेकज ज्ञानम् ॥ ५३॥
इतिशब्दो हेत्वर्थ । यतो विवेकजं ज्ञानं सर्वविषयादिरूपम् अतः सर्वत्र दोषसाक्षात्कारेण उक्तवैराग्यद्वारा संसारतारकं भवतीत्यर्थः । एतेन विवेकजज्ञानस्येदं लतणं बोध्यम् । अत एवानेन लक्षणेन सत्त्वपुरुषा. न्यताख्यातिजन्यसर्वज्ञताया अपि संग्रहात्तत्र सूत्रे सापि विवेकजज्ञानश. ब्देन भाणुकारैरुक्तेति । तत्र भाष्यकारः प्रत्येकं विशेषणानि व्याचक्षाणः तरकशब्दस्यापत्तिलब्धमर्थमाह । तारामतीति । लौकिकसामयीं विनैव यथार्थज्ञानसामध्ये सत्वपुरुषान्यतासंयमक्षणततक्रमसंयमाभ्यामुढो धितं प्रतिभा तदुत्यं स्वप्रतिभोत्यं तदेव हि संसारतारकं घटते अतो. थापत्त्या स्वप्रतिभात्यमेव तारकशब्दार्थः । प्रतिभात्यत्वे हेतुमाह । अनौपदेशिकमिति । नहि सर्वथा सर्वविषयकं ज्ञानं शाब्दं भवितं युज्यते शब्दस्य सामान्यमाविषयकत्वात परिच्छित्रविषयकत्वाचति । सर्वविषयमित्यत्र सर्वशब्दो ऽसंकुचित रत्याह । सर्वविषमिति । सर्वविषयकत्ववचनादित्यर्थः। अतीतेति । अतीतादिरूपं सर्वमित्यनुवादो इन्वयार्थः पर्यायः स्वगविशेषैः सर्वथा निःशेषैः विषयीकरोतीत्यर्थः । नास्ति क्रमः पापियं यत्र ज्ञानइत्यक्रमम् । अक्रमान्तविशेषणैर्लब्ध धाक्यतापयार्थमाह । एकक्षणोपारूठमित्यादिना । आरोहोत्रार्थाढद्धिवत्ताविति। विधेकजज्ञानस्याखिलसिद्धान्ते निर्वचनस्य बीजमाह । एतदिति। परिपूर्णशब्दार्थ स्वयं व्याचष्टे । अस्यैवांश दति। अस्यैव सूर्यतुल्यस्य विवेक जज्ञानस्यांशो योगप्रदीपः, कः इत्याकाक्षायामाह । मधुमतीति । स्थान्युपनिमन्त्रणसूत्रे ऋतंभरप्रजाद्वितीयभूमी योगी मधुभूमिक इत्युक्तं सैव च भूमिकान मधुमतीति निर्दिष्टा तामादाय सप्तधा प्रान्तभूमिप्रति पूर्वातं संप्रज्ञातसमाप्तिपर्यन्तभूमिकाजातं योगप्रदीप इत्यर्थः । ते हि भूमिव्यहा विवेकजज्ञानविषयैकदेशप्रकाशका अताशा इति भावः। ननु सवितकादिरूपास्तथा परिणामत्रयसंयमादिरूपाश्च याः संप्रज्ञातयोगभूमयः पूर्वोक्तास्सा
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org