________________
योगवार्तिकम् ।
२५५ यमसत्रकारामति । एतेनैव स्थलदष्टान्तेन परमसमेष्वपि तणतनमा. नुभवात विवेकज्ञानमनुमेयमित्याह । एतेनेति । तुल्यजातिलक्षणदेशस्य परमाणुसामान्यस्यान्योन्यम् अन्यत्वप्रत्ययो विवेकप्रत्ययः पूर्वयोः परमाणुदेशसाहित्यक्षणयोः साक्षात्करणात ईश्वरस्य प्रकृत्यादिप्रेरणमभीप्सोर्यागिनो भवतीत्यन्वयः । तत्र हेतुरुक्त उत्तरस्य परमाणरित्यादिना । यत उत्तरस्य परमाणोः पूर्वदेशानुपपत्त्योत्तरस्य स्वदेशप्राप्तिः पूर्वस्य स्वदेशप्राप्तितो भिना तयोः सहतणभेदात्साहित्यतणयोर्भिवत्वादित्यर्थः । तदेवं जात्यादिभेदात देशसंबन्धक्षणभेदाच्च तुल्ययोरन्यताप्रत्ययं प्रतिपादय समतेप्येतसमानमिति प्रतिपादयितुं तन्मतमाह। अपरे विति । अपरे वैशेषिका वन्ति नित्यद्रव्यत्तयो ऽन्त्या विशेषा इति । अन्त्याः प्रलयकालस्थाः मुक्तेषु ह्मात्मसु सर्वेषु तुल्यजातिलक्षणदेशेष्वन्यान्यं विभाजकान्तरासंभवेन विशेपनामा भेदकः कश्चन पदार्थावश्यं वाच्यः । तथा च परमाण्वादिष्वपि स एवान्यताप्रत्ययं करोतीति तेषामाशयः । तत्रापीति । तन्मतेपि देशादीनां योगद्धिगम्यतणान्तानां भेदोप्यण्वादीनामन्यत्वे हेतुरस्त्येवेति समानमित्यर्थः । मूर्तिः संस्थानं व्यवधिः व्यवहितता एतद् द्वयमधिकमत्रोक्तम् । अत इति । यतो मूर्तिव्यवधिर्जात्यादिनित्यद्रव्येष्वस्ति भेदको ऽतः परैरुक्तं मूलपृथक्त्वं मलेषु नित्यद्रव्येषु विशेषपदार्थो नास्ति मर्त्तिव्यधिजातिभ्यो भेदेनातिरकेण पृथक्त्वस्याभावात् तैरेव पृथक्त्वव्यवहारोपपत्तेरिति वार्षगण्य प्राचार्यों मन्यतइत्यर्थः । ननु वार्षगण्यमते मुक्तपुरुषेषु मायभावात्कथं विभागव्यवहारः स्यादिति चेत्र । बद्धावस्थायां ये मादयः स्थितास्तएव मुक्त्यवस्थायामपि योगिभिह्ममाणा अन्योन्य. भेदव्यवहारं जनयन्तीति अभ्युगमसंभवादन्यदेशादिरूपाणां तु परमावादीनां प्रलये भेदव्यवहारः स्वगतसूक्ष्मकार्यभेदात यथोक्तक्षणभेदादिभ्यश्चेति । अत्र वार्षगण्यमतस्याप्रतिषेधादिदमेव स्वममिति मन्तव्यम् । विवेकजज्ञानस्यैकं विषयं प्रदयंदानी सहेतुकां विवेकजज्ञानस्य मोक्षोपयोगितामाह ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org