________________
| ২৪
योगवार्तिकम् । जातिलक्षणदेशैरन्यतानवच्छेदात्तल्ययोस्ततः प्रतिपत्तिः ॥५२॥
जातिलक्षणदेशैरन्यतानवच्छेदात् भेदावधारणस्यासंभवात् ततो विवेकज्ञानादेव प्रतिपत्तिर्विवेकेन साक्षात्कारः पौरुषेयो भवतीत्यर्थः । तत्रादी जात्यान्यतावच्छेदस्यासङ्कीर्णमुदाहरणमाह । तुल्ययोशेति । कालभेदेन समानदेशस्थयोर्हि समानरूपयोगवययो दो जातिभेदा. देवानुमातुं शक्यतइति । अत्र बडवाशब्देनातिसारूप्याद्वयो लक्षितः सारूप्याधिका वडवैवेति । लक्षणेनान्यत्वावच्छेदनस्यासंकीर्णोदाहरण. माह । तुल्यदेशेति । लक्षणमभिव्यक्तो धर्मभेदः । देशेनान्यत्वावच्छेदनस्यासंकीर्णोदाहरणमाह । द्वयोरिति । देशभेदप्रकारमाह । पूर्वमिदमुत्तरमितीति । इदानी जात्यादिभिर्यत्रान्यतानुमानं न संभवति तादृशविवेकज. ज्ञानस्यासंकीर्णमुदाहरणमाह । यदा विति । यदा तु पूर्वदेस्थितमामलकं विषयान्तरव्यग्रस्य ज्ञातुर्विवेकं करिष्यतो योगिन उत्तरस्मिन् देशउपा. वर्त्तते संबध्यते देवादिना तदा द्वयोरामलक्यारेकदेशत्वे सति पर्वदेशो. पतितमिदमुत्तरदेशोपलतितं चेदमिति विवेकानुपपत्तिः । आमलकया. जात्यादित्रिकसाम्यात्। अदिग्धतत्त्वज्ञामं चोटेश्यम् इत्यत उक्तं सूत्रकारेण ततो विवेकजज्ञानात्मतिपत्तिरितीत्यर्थः । ननु क्षणतत्क्रमयोः संयमात कथमामलकयोर्विधेकज्ञानमिति पृच्छति। कथमिति। उत्तरं, पूर्वति। आमल. कस्य क्षणेन सह वर्ततइति आमलकसहक्षणः चैत्रसहोदर इतिवत् । एवं. विधः पूर्वी देश आमलकान्तरेण सहतणादुत्तरदेशादिवो ऽतः स्वदेशत. णमाया ते आमलके भित्रे एकस्य एकदा विरुद्धदेशसंबन्धासंभवादिति । एवं तयोर्भदं प्रसाध्यैकदेशसंबन्धदशायां विवेकयहणोपायमाह । अन्योत । अन्ययोर्भिवयोः पूर्वोत्तरदेशसंबन्धक्षणयोरनुभवः साक्षात्कारस्त्वामलकयों रन्यत्वे हेतुर्यथोक्तविवेकाहे कारणमित्यर्थः । अत्र चोदाहरणे तणसंयमादेव विवेकजं जानं दर्शितम् एतदनुसारेण क्षणक्रमसंयमादपि विवेकजज्ञानस्यो. दाहरणमुत्रेयमिति भावः। ताथा वित्रिक्षणमात्रेण ज्येष्ठकनिष्ठयोज्येष्ठ कनिष्ठताविवेकज्ञानं क्षणक्रमसाक्षात्कारं विना न संभवति अतः क्षणक्रमसं.
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org