________________
२५३
योगवार्तिकम् । हारजननातमत्वात नित्यकालेपि च प्रमाणं नास्ति इदानीमित्याखिलव्यवहाराणां खण्डकालमानविषयकत्वात कार्यकारणभावादीनामपि तणघटितत्वादिति । एतेन नित्यादिगण्यप्रामाणिकी व्याख्याता, सामा न्यतो दिग्व्यवहाराभावात् । पूर्वादिव्यवहारस्य च पराभ्यपगतदिगुपा. धिभिरेव संभवात सामान्यतः कालदिग्व्यवहारसत्त्वेपि आकाशादेव सदुपपत्तेश्च, अन्यथा पृथिवीजलतेजनादिभिरुपाधिभिर्देशाव्यतिरिक्तपदार्थः स्यादिति, कालाच दिश्ययं विशेषः यत् कालः तणरूप दृष्यते दिक्तु सर्वथैव नेष्यतइति । शास्त्रे दिक्सामान्य व्यवहारस्तु पूर्वपश्चिमनियामकोपाध्यच्छिनाकाशेन बोध्यः स्थित्याधारत्वेन देशव्यवहार. दिति । अत एव श्रुत्यादिषु कुत्र विदाकाशाच्छ्रोत्रं क्वचिच्च दिशः श्रोत्र. मिति वचनमन्योन्यमविरुद्ध दिगाकाशयोरेकत्वादिति दिक् । तणततकमयानास्ति वस्तुसमाहार इति यत्प्रागुक्तं तत् प्रपञ्चति । न चेत्यादिना नास्ति तत्समाहार इत्यन्तेन । सहभावाभ्युपगमेपि क्रमो न संभवतीत्याह। क्रमश्चेति । असंभवे हेतुमाह । पूर्वस्मादिति । तस्मात्सर्वदैव वर्तमानलक्षणः सत्त्वेक एव तस्तिष्ठति न पूर्वोत्तरे तणा इत्यतो नास्ति तयोः तणततक्रमयोवास्तवं मिलनं मुहादिरूपमित्यर्थः । वयमाणोपपादकमादी वक्ति। ये वित्यादिना सर्वधर्मा इत्यन्तेन । ये पुनर्भूतभविनः तणास्ते सर्वपि सर्ववस्तुपरिणामाधारा एकदैव वार्धकाट्यदर्शनतः क्षणपर्यायकालत्वेनैव परिणामहेतुत्वादित्युत्तरपादे क्षणप्रतियोगीत्यायुत्तरसूत्रे व्याख्येयाः, तेन हेतुना एकैकेन तणेन कृत्वा लोकः परिणाममनुभति प्राप्नोति । यतः तत्तणोपारूढा एकैक्षणोपारूढाः धर्माः पदार्था इत्यर्थः । ततः किमित्यत आह । तयोः क्षति । ततश्चेति । ततश्च क्षणतत्क्रमसाक्षात्कारादखिलपरिणामततक्रमसाक्षात्कारद्वारा सर्ववस्तूनामन्या. न्यव्यावत्ततया स्वरूपावधारणं भवतीति सूत्रार्थ उक्तः । उत्तरसत्रमवतारयति । तस्यति । तस्य विवेकजज्ञानस्य सर्वविषयकस्य शिष्यव्यत्पादनाय एकमुदाहरणमुपन्यस्यतइत्यर्थः। ...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org