Book Title: Yogvarttikam
Author(s): Vigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
Publisher: Vigyanbhikshu Ramkrushna Shastri Keshav Shastri

View full book text
Previous | Next

Page 291
________________ योगवार्तिकम्। ২৩৩ तन्मात्राणां सृष्टिं ससर्ज चकार तदनन्तरं स एव भूतादिः शब्दतन्मात्रा. स्वद्वितीयात शब्दगुणकम् आकाशं ससर्जेत्यनुषज्यते तथा चाहंकारशब्द. तन्मात्राभ्यां मिलित्वाकाशं सृज्यते न तु तन्मात्रान्तरमपेक्ष्यतइति सिद्धम् । तच्च शब्दगुणकमाकाशं भूतादिनाहंकारेणापूरितं भूत्वा स्पर्शमानं ससर्ज, अत्र चाकाशेहंकारस्यापि कारणत्ववचनादपरभूतचतुष्कपि तत्त. न्मात्राणामहंकारसहितानामेव हेतुत्वमवगम्यते युक्तिसाम्यात् । एतत्सचनायैव भूतादिशब्देनाहंकारोपन्यासः ततश्च स्पर्शतन्मात्राट् बलवान्म. हावायुरभवदिति । एवंक्रमेण तत्तन्मात्राधिक्येन तेजप्रादिभूतत्रयोत्ति. वाक्यान्यपि तत्र व्याख्येयानि । कार्यकारणयोर्विवेकप्रकारः प्रदर्शितः । इदानों यथोक्तं कार्यकारणरूपं सर्व वस्त्वसत् चित्तकल्पितमात्रं स्वप्नवदिति यास्तविषिध्या चित्ततदर्थयोविवेकप्रकारं दयिष्यति सूत्रकारः । तत्सूत्रमवतारयितुमुपक्रमते । नास्त्यर्थ इति । विज्ञानवादिन आहुः । बाह्मवस्तुनः प्रातीतिक्येव सत्ता परमार्थतस्तु गुणा वा तत्परिणामो वा अतीतादिकं वा किमपि नास्ति । न निरोधो न चोत्पत्तिर्न बदो म च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ यथा रथादयः स्वप्ने भान्तीव नैव सन्ति ते । तथा जायदवस्थायां भूतानि च न सन्ति वै ॥ इत्यादिश्रुतिस्मृतिपरंपरयैव बाह्मवस्तुनिराकरणात् । तथा युक्तिरस्ति । स्वप्नादौ तावत् विषयं विनापि ज्ञानमुभयवादिसिद्धमनुभववि. षयत्वं विना हि विषयः परैरपि न स्वीक्रियते अत उभयवादिसिद्धेन जानेनैव स्वप्नादिवत्सर्वव्यवहारोपपत्ता ज्ञानातिरिक्तार्थकल्पने गौरवमिति तामिमा युक्तिं प्रदर्शयन् स्वमतमुपन्यात । नास्त्यर्थ इत्यादिना । वि. ज्ञा वसहचरो विज्ञानाभावकालीनोऽर्थ उभयसिदो नास्ति । ज्ञानं तु अर्थाभावकालीनं स्वन्नादौ कल्पितमुभयवादिसिमित्यनया दिशा एतयक्तिमार्गण ये वस्तुस्वरूपमत्यन्तमपहवते । य इत्यादयपहुवतइत्यन्तं विवृणा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330