Book Title: Yogvarttikam
Author(s): Vigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
Publisher: Vigyanbhikshu Ramkrushna Shastri Keshav Shastri

View full book text
Previous | Next

Page 302
________________ २८८ योगवार्तिकम् । दिनो भवन्ति इत्यर्थः । तेपि न्यायविदा भोक्तः सत्त्वस्यापलापेन स्वाभिप्रेतस्य मोतस्याहंशब्दार्थस्य ब्रह्मचयादीनां वा सत्तास्वीकारात सेयमुद्देश्य विस्मृतिः कथं मूठान लज्जयतीति । एतेनाधुनिकवेदन्तिबुवा अपि न्यायविरूदा मन्तव्याः । तेपि हि मोक्षार्थ गुरुमुपासना ब्रह्मातिरिक्त सर्व शुक्तिरजतवदत्यन्ततुच्छमिति गुरूपदेशान्मोततत्साधनादिकमेशपलपन्ती. ति। अपि चोपदेशानन्तरमकृतसाक्षात्कारस्य मननादिसाधनादानुष्ठानाभ्यु. पगमोपि तेषां न न्याय्यो ऽसतोपदेशेन फलतत्साधनेषु सर्वेष्वेवाविश्वा. सात् । अश्रद्धया कृतेनापि फलानुदयाच्च । किं बहुना श्रुत्यादिप्रामाएयबाधनेन ज्ञानप्रामाण्यसंशयावाहितेः संशया योगान्तेपि ब्रह्मणि स्यात् । न च स्वप्रकाशतया ब्रह्मणि न प्रमाणापेक्षेति वाच्यम् । प्रकाशतस्तस्य त्सिद्वैा कर्मकर्तृविरोधादितिसांख्यसूत्रोक्तदोषात स्वाभ्युपगतश्रवणादिवै. यापत्तेश्च मोक्षसाधनविषयस्य विवेकस्यास्वप्रकाशत्वाच्च । यत्तु अवेद्यत्वपि प्रत्यक्षव्यवहारयोग्यस्वं स्वप्रकाशत्वमिति प्रलपनं तत् शशशृङ्गवन्म. न्तव्यम् । वेदनस्य व्यवहारं प्रति सामानाधिकरण्येन हेतुत्वात् द्रष्टव्यत्वादि. अतिविरोधाच्चेति। सैषातिनास्तिकता दृश्यतेपि बहिर्मुखानां यतिमानिना. मिति । आधुनिकानां वेदान्ते विवर्त्तवादो यथा यथा विचार्यते तथा तथा न्याविरोधेन सिकतासेतु दीर्यते । स्वमते तु नास्त्ययं न्याविरोधः मोतभागिनोहंशब्दार्थस्य भोक्तुः स्थिरस्य स्वीकारादित्याह । सांख्ययोगादस्त्विति । आदिशब्देन ब्रह्ममीमांसादयो याह्माः । प्रकृष्टा वादाः प्रवादाः स्वशब्देनाहं स्वमात्मेत्यादिशब्दजातेन न त्वन्यः । कथमन्यस्या. त्माहमित्यादित्तिगोचरः स्यात्तत्राह । वित्तस्य स्वामिनमिति । स्वामी हात्मा लोके व्यवह्रियते यच्चानाति यदादत्ते इत्यादिशास्त्रे चेति । अपरिणामिनि यथेष्टविनियोक्तृत्वाभावात् कथं स्वामित्वं तत्राह । भोक्तामिति। अत्र च स्वतोपि पुरुषस्य भोगोस्तीत्यवधारणीयम् । प्रकृतोपपत्तये चित्तस्य स्वाभासत्वं निराकृतम् इदानी सदाजाताश्चित्तवृत्तयस्तत्प्रभाः पुरुषस्यापरिणामादिति सूत्रस्योपपादकं सूत्रमेतेनैव प्रसङ्गेनोत्थापयति । कमिति । नवपरिणामित्वे विषये संचाराभावात्तदाकारपरिणामाभावाच्च कथं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330