________________
२८८
योगवार्तिकम् । दिनो भवन्ति इत्यर्थः । तेपि न्यायविदा भोक्तः सत्त्वस्यापलापेन स्वाभिप्रेतस्य मोतस्याहंशब्दार्थस्य ब्रह्मचयादीनां वा सत्तास्वीकारात सेयमुद्देश्य विस्मृतिः कथं मूठान लज्जयतीति । एतेनाधुनिकवेदन्तिबुवा अपि न्यायविरूदा मन्तव्याः । तेपि हि मोक्षार्थ गुरुमुपासना ब्रह्मातिरिक्त सर्व शुक्तिरजतवदत्यन्ततुच्छमिति गुरूपदेशान्मोततत्साधनादिकमेशपलपन्ती. ति। अपि चोपदेशानन्तरमकृतसाक्षात्कारस्य मननादिसाधनादानुष्ठानाभ्यु. पगमोपि तेषां न न्याय्यो ऽसतोपदेशेन फलतत्साधनेषु सर्वेष्वेवाविश्वा. सात् । अश्रद्धया कृतेनापि फलानुदयाच्च । किं बहुना श्रुत्यादिप्रामाएयबाधनेन ज्ञानप्रामाण्यसंशयावाहितेः संशया योगान्तेपि ब्रह्मणि स्यात् । न च स्वप्रकाशतया ब्रह्मणि न प्रमाणापेक्षेति वाच्यम् । प्रकाशतस्तस्य त्सिद्वैा कर्मकर्तृविरोधादितिसांख्यसूत्रोक्तदोषात स्वाभ्युपगतश्रवणादिवै. यापत्तेश्च मोक्षसाधनविषयस्य विवेकस्यास्वप्रकाशत्वाच्च । यत्तु अवेद्यत्वपि प्रत्यक्षव्यवहारयोग्यस्वं स्वप्रकाशत्वमिति प्रलपनं तत् शशशृङ्गवन्म. न्तव्यम् । वेदनस्य व्यवहारं प्रति सामानाधिकरण्येन हेतुत्वात् द्रष्टव्यत्वादि. अतिविरोधाच्चेति। सैषातिनास्तिकता दृश्यतेपि बहिर्मुखानां यतिमानिना. मिति । आधुनिकानां वेदान्ते विवर्त्तवादो यथा यथा विचार्यते तथा तथा न्याविरोधेन सिकतासेतु दीर्यते । स्वमते तु नास्त्ययं न्याविरोधः मोतभागिनोहंशब्दार्थस्य भोक्तुः स्थिरस्य स्वीकारादित्याह । सांख्ययोगादस्त्विति । आदिशब्देन ब्रह्ममीमांसादयो याह्माः । प्रकृष्टा वादाः प्रवादाः स्वशब्देनाहं स्वमात्मेत्यादिशब्दजातेन न त्वन्यः । कथमन्यस्या. त्माहमित्यादित्तिगोचरः स्यात्तत्राह । वित्तस्य स्वामिनमिति । स्वामी हात्मा लोके व्यवह्रियते यच्चानाति यदादत्ते इत्यादिशास्त्रे चेति । अपरिणामिनि यथेष्टविनियोक्तृत्वाभावात् कथं स्वामित्वं तत्राह । भोक्तामिति। अत्र च स्वतोपि पुरुषस्य भोगोस्तीत्यवधारणीयम् । प्रकृतोपपत्तये चित्तस्य स्वाभासत्वं निराकृतम् इदानी सदाजाताश्चित्तवृत्तयस्तत्प्रभाः पुरुषस्यापरिणामादिति सूत्रस्योपपादकं सूत्रमेतेनैव प्रसङ्गेनोत्थापयति । कमिति । नवपरिणामित्वे विषये संचाराभावात्तदाकारपरिणामाभावाच्च कथं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org