________________
योगवार्तिकम् । चित्तज्ञातृत्वरूपं चित्तभोक्तत्वं पुरुषस्य स्यात् । चित्तस्थले हि घटादिवि. षयग्रहणं चित्तस्य संचारात्तदाकारपरिणामाच्च दृष्टमित्यर्थः । तत्र सिद्धा. न्तसूत्रम् ।
चितरप्रतिसंक्रमायास्तदाकारापत्तो स्वबुद्धिसंवेदनम् ॥२२॥ - अप्रतिसंचाराया अपि चितः स्वीयबुद्धित्तिदर्शनं बुद्धिवृत्त्याकारतापत्त्यैव भवतीत्यर्थः । अयं भावः । ज्ञातुः संचारो न सातादेव जाने हेतुः किं त्वाकारता हेतुः सविकर्षद्वारा । अन्यथा स्वप्नादौ मनःसंचाराभावे. नार्थभानायोगात् । अतो विभुत्वेनैव सर्वत्र सनिष्टस्यात्मनः संचारो नापेत्यतइति । आपत्तिग्रहणं च पुरुषस्य पारमार्थिकाकारप्रतिषेधार्थम् । यथा हि विषयासंत्रिकर्षकाोप स्वप्नादौ तद्वानायागत्या चित्तस्य तदा. सकारः परिणाम इष्यते नैवं पुरुषस्य चित्तवृत्त्यभाषेपि तद्वानं भवति येन पुरुषेपि वृत्त्याकारः परिणाम इष्येत किं तु स्फटिके सनिश्पष्टजपालाहित्यस्येव चित्तवृत्तः प्रतिबिम्बमेव लाघवादिष्यते उभयत्राकाराख्यपरिणामकल्पने गौरवात् स्फटिकदर्पणादेः स्वप्रतिबिम्बितवस्तुप्रकाशकत्वस्य सिद्धत्वाच्चेति। दिदं वृत्तिबिम्बितमेव*वृत्त्याकारापत्तिरित्युक्तं सूत्रकारणेति । भाष्यकारः पुरुषस्य बुझाकारतां प्रतिपादयितुमादी बुद्धेरेव रूपमाह। अपरिणामिनीति । भोक्तृशक्तिः पुरुषाख्या ऽपरिणामिनी अतो नापि गतिमती ततो न स्वप्नजाग्रतोश्चित्तस्येव पुरुषस्य ज्ञानं संभवति किं तु वृत्तिसरूपपरिणामिन्यर्थ चितिः प्रतिसंक्रान्तेव प्रतिबिम्बरूपेण संचरितेव सती तवृत्तिमनुपति तत्तिं चेतनवत्करोतीत्यर्थः । अन्यथा हि घटमहं जानामीति बुद्धिवृत्त्यनुपत्तिः बुद्धेरनहत्वात अचेतनत्वाच्चेत्युत्तरसूत्रे वत्यति । अथा. विवेकादेवैतादृशी बुद्धितिरिति चेत्सत्यं, तथाविवेक एव प्रतिबिम्बमलकः दोषान्तराभावात तथा चेतनभानार्थमपि वृत्ती ततिबिम्बः कल्प्यते बदारूठतयैव शब्दादिवदात्मनोपि भानादिति। इदमेव प्रतिबिम्बंबुद्धश्चिच्छायापत्तिरित्युच्यते तथा बुद्धेराकारतावत् आत्माकारतेत्यप्युच्यतति • पतिबिम्बितत्वमेवेति चेदभविष्यत्साधुतरम् ॥
१६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org