________________
२९० .
योगवार्तिकम् । मन्तव्यम् । यद्यपि घटायाकारपरिणामवदात्माकारपरिणाम एव बुद्धर्भवति तथापि प्रतिबिम्बतुल्यतया स एव प्रतिबिम्बमप्युच्यते । बुद्धेरूपं प्रदश्य पुरुषस्य तदाकारतापत्तिं दर्शयति । तस्याश्चेति । हिशब्दोत्रावधारणे, तस्या अपिचितेजानरूपा वृत्तिर्बुद्धिवविशिष्टैवेत्याख्यायते व्यर्वाहयते । तत्र हेतुः प्राप्तेत्यादि । प्राप्तश्चैतन्योपयहश्चैतन्यप्रतिबिम्बं येन एतादृशं रूपं यस्या बुद्धिवृत्तेस्तदनुकारिमात्रतया तत्प्रतिबिम्बाधारतामात्रेणेत्यर्थः । द्रष्टा दृशिमात्र इति सूत्रेपीदमेव वाश्यं भाष्यकारैः प्रमाणत्वेनोपन्यस्तं, त्तिसारूप्यमितरत्रेत्यत्राप्येतदुक्तमिति स्मर्त्तव्यम् । ननु जानाम्यहं क्रुद्धोहं भीताहमित्यादिरूपता वृत्तरेवेति प्रागेवेतिं हि निर्विकल्पकस्य वृत्तिबो. धस्य स्वरूपं कीदृमिति । उच्यते । यादृशं ज्ञानक्रोधादिवृत्तीनां रूपं तादृशमेव बिम्बप्रतिबिम्बोदहणात् तदेव वृत्तिबोधस्य रूपं, स च पत्तिबोधो वृत्त्यविवेकेन जानामीतिवृत्त्यन्तरस्य विषय एव भवति जानचितिबोधादिशब्दानां पर्यायत्वादिति । एकाकारतापत्तावागममपि प्रमा. णयति । तथा चोक्तमिति । न पातालमित्यादेरयमर्थः । गुहाहितं गहरेष्टं पुराणमित्यादिश्रुतिस्मृतिषु यस्यां गुहायां गुह्यं शाश्वतं ब्रह्म अंशांश्यभेदात आत्मसामान्यं निहितं संगुप्तम् इति गीयते । सा गुहा न पा. सालादि किंतु ब्रह्मवृत्त्यविशिष्टां बुद्धित्तिमेव कवयः पण्डिताः पश्यन्तीति । अविशिष्टता च परस्परं प्रतिबिम्बनादुभयोरेव विषयाकारत्वचेत. नसायमित्युक्तम् । अतो विविच्य यहणायोग्यतयाऽवस्थितिरेवात्मनः संगोपनं बद्धाविति श्लोकतात्पर्यार्थः । तदेतदेकाकारत्वमादित्यपुराणेप्युक्तं
नित्यः सर्वगतो झात्मा बुद्धिसनिधिसत्तया । यथा यथा भवेद्बुद्धिरात्मा तदिहेष्यते ॥
इति । ननु भवतु चितेः स्वबुद्धिसंवेदनं शब्दादिसंवेदनं तु कथं भवेत् बुद्धिवच्छब्दादीनामपि चितो प्रतिबिम्बनसामाङ्कीकारे सर्वदेव सर्वार्थभानप्रसङ्गात । कथं वा चितेः स्वसंवेदनम्। उक्ता मनवस्था चित्तवत् पुरुषेपि समानेत्याशङ्कानिरासायोत्तरसूत्रं प्रवर्तिष्यते तत्सूत्रं भाष्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org