________________
योगवार्तिकम् । णामुत्तरोत्तरज्ञानेन पूर्वपर्वज्ञानग्रहणकल्पना परास्ता अनवस्यागौरवाभ्यामिति मन्तव्यम् । अतिप्रसङ्गं व्याख्याय स्मृतिसंकर व्याचष्टे । स्मृतिसंकर श्चेति । बुद्धिबद्दर्शित शेषः । संकरशब्दार्थमाह । यावन्त इति । विषया. नुभवकाले ज्ञानधारा जातेति विषयस्मृतिकालेपि अनन्तानां तज्जानानां स्मृतिरकदैव भविष्यति । घटो मया पुरा जातो घटज्ञानं तज्ज्ञानं चेत्ये. वमनन्ताकारः सायं स्मतिसंकरः प्राप्त इत्यर्थः । अस्मन्मते च पौरुषेय. बोधस्य नित्यतया निर्विकल्पमात्रतया च न स्मतिहेतुत्वमिति । नन्वेता. दृशसंकरे को दोष इति तत्राह । तत्संकराचेति । संकराभ्युपगमे च घटो मया ज्ञात इत्येकमात्राकारस्मृत्यनुभवो न स्यादित्यर्थः । अन्यायपि दूषणानि संचयनास्तिकमतं तिरस्करोति । एवं बुद्धीति । सर्व बन्धमोक्षधर्माधर्मादिव्यवस्थादिकम् । तदेवं चित्ताद्विविच्य मोतो व्यवस्था. पितः चित्तस्य च स्वाभासत्त्वं निराकृतम् । इदानी परेषामिष्टोक्तात्मतत्त्वावधारणस्य स्वाभ्युपगमविरोधेिनाप्यन्यायतामाह । ते विति । भोक्तस्वरूपं न न्यायेन संगच्छन्ते न्याविरुद्धा इत्यर्थः । तेषां विज्ञानवादशन्यवादश्चेति मुख्यं मतद्वयं तत्रादौ विज्ञानवादिनां क्षणिकता त्यस्वाभ्युपगविरोधा. व्यायविरुद्धादयं दर्शयति । के चिदिति । सत्त्वमात्रं क्षणिकविज्ञानरूपं चित्तमात्रं परिकल्प्य स्वीकृत्य तस्यैव मोक्षं वदन्ति । अस्ति स सत्त्ववि. शेषो य एतान सांसारिकान पञ्च स्कन्धान हित्वा अन्यांश्च पञ्चस्कन्धान युक्तो ऽनुभवतीति ततश्च तत एव स्वाभ्युपगमात पुनस्त्रान्त चित्त. स्थैर्यापत्त्येत्यर्थः । अतो न्यायविरुद्धास्तइति, पञ्चस्कन्धाश्च विज्ञानवेद. नासंज्ञानरूपसंस्काराख्याश्चित्तस्यैव शाखाभेदा न तु चित्ताद्भिवाः । तत्र विज्ञान विषयानुभवः वेदना दुःखं संज्ञारूपे शब्दार्थाविति यावत् संस्कारी वासना एतेष्वेषामपि सुखादीनां प्रवेश इत्यखिलं वस्तु चित्तमे. वेति। शन्यवादेप्याह । तति । तथान्ये के चित स्कन्धानां महनिर्वदाय महानिदाख्यवैराग्यायापुनर्जन्मरूपप्रशान्तये च जीवन्मुक्तस्य गुरोरन्तिके ब्रह्मचर्य ब्रह्माभ्यासं साक्षात्कारपर्यन्तं करिष्यामीत्युक्त्वा शिष्यतामापत्रा नास्तिका गुरूपदेशात् सत्त्वस्याहंशब्दार्थस्यापि सत्तामपलन्ति शून्यवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org