________________
२८६
योगवार्तिकम् । निर्विकल्पकैकज्ञानस्वीकार च विशिष्ट प्रत्यक्षसामय्या बलवत्याः प्रतिबन्धात् संशयानभावः । संप्रज्ञातयोगेपि वृत्तिः स्वरूपतो भासतएवेत्यभ्युपेयमिति । चित्तस्य स्वाभासतावादिमते तन्मतमालम्ब्यैवान्यदूषणमाह ।
एकसमये चोभयानवधारणम् ॥ २० ॥
सूत्रार्थमाह । न चेत्यादिना युक्तमित्यन्तेन । न च नाप्येकस्मिनुत्पत्तिक्षणएव स्वपरावधारणं युक्तं पूर्व सत एव प्रत्यक्षगोचरत्वात स्वस्य च प्रागसत्त्वादित्यर्थः । नन्वेवं स्वोत्पत्त्यनन्तरं स्वग्रहणमस्तु तत्राह । क्षणिकेति । क्षणिकवादिमते या वस्तुन उत्पत्तिः सैव क्रिया तस्य कार्य सैव च तस्य कादिकारकवर्गः तन्मते सर्ववस्तयत्तिमात्रफलकं निर्हेतुकं स्वयमेव भवतीति सिद्धान्तः । तथा चोक्तं भतिर्येषां क्रिया सैव कारकं सैव चोच्यत' इति । अत्र उत्पत्त्यनन्तरं चित्तस्य स्वग्रहणार्थी क्रिया न संभवतीत्यर्थः । अस्मन्मतेपि शब्दबुद्धिकर्मणां विरम्य व्यापाराभावादेकस्या वृत्ताग्राहकत्वं न संभवतोति भावः । उत्तरसूत्रमवतार. यति । स्यान्मतिरिति । मतिरभ्युपगमः । ननु स्वाभासशद्धन स्वसंतानभास्यत्वं वक्तव्यं तथा च स्वरसेन विनाशस्वभावेन निरुटुं नष्टमपि चित्तमुत्तरोत्तरमुत्पनेन चित्तान्तरेण यायमित्यभ्युपगमः स्यादिति कर्मकर्तृविरोधादिदोष इत्यर्थः । तत्र सिद्धान्तसूत्रम् । चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥ २१ ॥
वृत्तिरूपचित्तान्तरण रत्तिरूपचित्ते दृश्येभ्युपगम्यमाने तु बुद्धिबुद्धे. वृत्तिवृत्तरतिप्रसङ्गो ऽनवस्था । एतद्याचष्टे । अथेति। बुद्धिबुद्धिश्चित्तगोचर चित्तं परेषां वृत्त्यतिरिक्तचित्ताभावेन वृत्तिचित्तयोः पर्यायत्वात् । ननु नेयमनवस्था सर्वमेव चित्तं यहीतव्यमिति नियमाभावादिति चेत् । वृत्तरज्ञातसत्ताङ्गीकारे जानामि न वेत्यादिसंशयापत्तेः। योग्यानुपलब्ध्या ज्ञानादाभावप्रत्यक्षानुपपत्तेश्च । किं च मा भवत्वनवस्था वृत्तिगोचरानन्तरत्तिकल्पनागौरवं त्वपरिहार्यमेव । अस्माभिलाघवेन सकलत्तिगोचरकविभुजानकल्पनादिति । एतेन चित्तनित्यत्वाभ्युपगमिनामपि न्यायवैशेषिका.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org