Book Title: Yogvarttikam
Author(s): Vigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
Publisher: Vigyanbhikshu Ramkrushna Shastri Keshav Shastri
View full book text ________________
२९६
योगवार्तिकम् । यम इत्यायातम्। ऐहिकसाधनशून्यस्य प्राक्तनतथाविधकर्माभावे च सा भाव नानोति प्रत्युत देहायात्मतायामेकचिर्भवतीति, अत्र पूर्वाचार्यवाक्यं प्रमाणात। यस्याभावादिति। यस्य कर्मणाभावादिदं वक्ष्यमाणं फलमुक्तं पूर्वाचार्यैः । तदेवाह । स्वभावमिति। स्वभावमात्मभावं त्यक्त्वा एषां सतकर्मशून्यानां पूर्वपक्षे नित्यदेहायात्मतायामेघ रुचिः श्रद्धातिशयो भवति । अरुचिश्च तनिर्णयइत्यर्थः । आत्मभावनायाः कारणमुक्त्वा स्वरूपमा. ह। तत्रात्मेति । कोहमासं किं नरादिरूप आसं कथमासं दुःखेन दंशन*. वासं किं स्विदिदं वर्तमानर्माप मम स्वरूपं किं देहो वा मन आदिवा कथं विदिदं केन वा प्रकारेण पुण्यपापादिना तिष्ठतीत्यादिरर्थः । के भविप्याम इत्यादोकत्वएव बहुवचनं, तथा च यज्जिज्ञासोत्यभयादिनिवृ. तये विशेषदर्शनं पुरुषः संपादयति सैवात्मभावनेत्यर्थः । आत्मभावनामशेषतो व्याख्याय सूत्रवाक्यार्थमाह । सात्विति । विशेषदर्शनात्कुतो निवतिरिति प्रश्नस्योत्तरमाह । चित्तस्येति । एष भावरूपो विचित्रः परिणाम आत्मनो न भवति किं तु चित्तस्यैवावियाजन्यत्वात अविझायाश्च चित्तधर्मत्वात पुरुषस्त्वविद्याशन्यत्वाच्छुद्धः पापपुण्यविवर्जितः । ततश्च चित्तधर्मर्जन्ममरणसुखदुःखादिभिरपरामृष्टः कदाप्यसंबद्ध इति । तत इति विशेषदर्शनादस्य कुशलस्यात्मभावना निवर्ततइत्यर्थः । तनिवृत्तेः स्वर्गनरकादिषु रागद्वेषादिनिवृत्तिः फलमिति । तस्य विशेषदर्शिनो लत. णं संप्रज्ञातयोगं वयमाणमुक्तेश्च कारणभूतमाह।
तदा विवेकनिम्न कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥
कैपल्ये प्राग्भारो यस्य तत्कैवल्यप्राग्भारम् । कैवल्याभिमुखमिति यावत्, व्याचष्टे । तदानीमिति । तदानीं विशेषदर्शनावस्यायां स्वर्गादिवै. राग्यवशात् चित्तमन्यथा भवतीत्यनेनान्वयः । विषयप्राग्भारं विषयाभिमुखम् प्रज्ञा ननमज्ञानमार्गसंचारि एवमुत्तरत्र, न चानेन कोमलकण्टकवत् उत्पत्रमात्रेण विशेषदर्शनेनैव कृतकृत्यता भवति पूर्वसंस्कारवशात् अन्त रान्तरा मोहाख्यानां भवदुःखबीजवृत्तीनामनुवृत्तरित्याह । ___ • दुःखेनेदृशेन वासमिति दुःखेन दर्शनवानासमिति वा कल्प्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330