________________
योगवार्तिकम्।
২৩৩ तन्मात्राणां सृष्टिं ससर्ज चकार तदनन्तरं स एव भूतादिः शब्दतन्मात्रा. स्वद्वितीयात शब्दगुणकम् आकाशं ससर्जेत्यनुषज्यते तथा चाहंकारशब्द. तन्मात्राभ्यां मिलित्वाकाशं सृज्यते न तु तन्मात्रान्तरमपेक्ष्यतइति सिद्धम् । तच्च शब्दगुणकमाकाशं भूतादिनाहंकारेणापूरितं भूत्वा स्पर्शमानं ससर्ज, अत्र चाकाशेहंकारस्यापि कारणत्ववचनादपरभूतचतुष्कपि तत्त. न्मात्राणामहंकारसहितानामेव हेतुत्वमवगम्यते युक्तिसाम्यात् । एतत्सचनायैव भूतादिशब्देनाहंकारोपन्यासः ततश्च स्पर्शतन्मात्राट् बलवान्म. हावायुरभवदिति । एवंक्रमेण तत्तन्मात्राधिक्येन तेजप्रादिभूतत्रयोत्ति. वाक्यान्यपि तत्र व्याख्येयानि । कार्यकारणयोर्विवेकप्रकारः प्रदर्शितः । इदानों यथोक्तं कार्यकारणरूपं सर्व वस्त्वसत् चित्तकल्पितमात्रं स्वप्नवदिति यास्तविषिध्या चित्ततदर्थयोविवेकप्रकारं दयिष्यति सूत्रकारः । तत्सूत्रमवतारयितुमुपक्रमते । नास्त्यर्थ इति । विज्ञानवादिन आहुः । बाह्मवस्तुनः प्रातीतिक्येव सत्ता परमार्थतस्तु गुणा वा तत्परिणामो वा अतीतादिकं वा किमपि नास्ति ।
न निरोधो न चोत्पत्तिर्न बदो म च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ यथा रथादयः स्वप्ने भान्तीव नैव सन्ति ते । तथा जायदवस्थायां भूतानि च न सन्ति वै ॥
इत्यादिश्रुतिस्मृतिपरंपरयैव बाह्मवस्तुनिराकरणात् । तथा युक्तिरस्ति । स्वप्नादौ तावत् विषयं विनापि ज्ञानमुभयवादिसिद्धमनुभववि. षयत्वं विना हि विषयः परैरपि न स्वीक्रियते अत उभयवादिसिद्धेन जानेनैव स्वप्नादिवत्सर्वव्यवहारोपपत्ता ज्ञानातिरिक्तार्थकल्पने गौरवमिति तामिमा युक्तिं प्रदर्शयन् स्वमतमुपन्यात । नास्त्यर्थ इत्यादिना । वि. ज्ञा वसहचरो विज्ञानाभावकालीनोऽर्थ उभयसिदो नास्ति । ज्ञानं तु अर्थाभावकालीनं स्वन्नादौ कल्पितमुभयवादिसिमित्यनया दिशा एतयक्तिमार्गण ये वस्तुस्वरूपमत्यन्तमपहवते । य इत्यादयपहुवतइत्यन्तं विवृणा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org