________________
२७८
योगवार्तिकम् । ति । जानेत्यादिना आहुरित्यन्तेन । दिक्शब्दचिताश्च पराभिप्रेतश्रुत्यादयः पूर्वोक्ताः तथा युक्त्यन्तराणि च ।
सहोपलम्भनियमादभेदोत्रीतद्वियोः । भेदश्च भ्रान्तिविज्ञानैदृश्य इन्दविवाद्वय ॥
इत्यादीनि । तन्मतं स्वयमादौ निराकरोति । ते तति । ते विज्ञा. नवादिन एवासन्त इत्यर्थः । तत्र हेतुमाह । प्रत्युपस्थिमित्यादिना स्युरित्यन्तेन । अस्यार्थः । इदं सर्व वस्तु स्वमाहात्म्येन सत्रिकर्षादिनैवोपस्थितं न तु दोषादिना स्वप्नवदत्यन्तबाधादर्शनात् । अतः कथं वस्तुस्वरूपं रहीत्वापि प्रमाणरूपेण स्वप्नज्ञानरूपदृष्टान्तबलेन वस्तुस्वरूपमपलपन्तः श्रद्धेयवचनाः स्युः । तेषां जानस्यापि भ्रमत्वेन तद्वाक्यस्य यथार्थवाक्या. र्थजानाजन्यत्वात् तद्वाक्यार्थस्यापलापाच्च । तद्वाक्यस्याश्रद्धेयत्वादित्यर्थः । नहि जायज्ञज्ञानस्य स्वमदृष्टान्तेन विषयापलापे क्रियमाणे स्वाभिप्रेतस्य यत्किंचिज्ञानस्य विषयः सनित्यप्यभ्युपगन्तुं शक्यते प्रामाणिकैरित्यतस्तएव नास्तिकाः न पुनरी नास्तीति भावः । एतेनाधुनिकानां दृष्टिसृष्टिवादिनां वेदान्तिब्रुवाणामपि मतं प्रच्छचना. स्तिकतयोपेक्षणीयम् । स्वप्नादिदृष्टान्तेन श्रीहर्षादीनामसतखण्डनेन च वेदान्तज्ञानतज्जन्यज्ञानयोरपि भ्रमत्वापत्त्या वेदान्तप्रामाण्यासिद्धी तत्प. तिपादाब्रह्मासिद्धिप्रसङ्गादिति । नन्वनुभवस्वरूपस्यात्मनः स्वप्रकाश त्वात न तत्र प्रमाणापेक्षेति चेत् न । तथा सति वेदान्तश्रवणवैयापत्तेः। अथापर्णत्वसद्वितीयत्वभ्रमनिरासार्थ श्रवणापेक्षेति चेत् न। अप्रमाणीभूतेन घेदान्तनापूर्णत्वादाभावस्यासियापत्तेः । ननु श्रुत्या स्वार्थ बोधिते सति पश्चात्तद्वाधेप्यक्षतिः श्रुतिप्रवृत्तेः प्राक् अबाधितमेव सर्वमिति । मैवम् । अतिप्रामाण्यवाहकानुमानादीनामप्यप्रामाण्ये स्वप्रमाणीभूतां बाधितां च श्रुतिम् उत्पादितज्ञानामपि प्रामाण्यसंशयाहितः स्वार्थसंशयः कथं नाजा. गलस्तनवत विफलीकुर्यादिति दिक् । विज्ञानवादे दूषणान्तरपरतयोत्त. रसूत्रमवतारयति । कुतश्चेति । चशब्दो हेत्वन्तरे कुतोपीत्यर्थः ।
-
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org