________________
योगवार्तिकम् ।
२७९
वस्तुसाम्ये चित्तभेदात्तयोविभक्तः पन्थाः ॥ १५ ॥
एकस्मिवेव विषये चित्तान्तरवियोगे चित्तान्तरालम्बनदर्शनात्त. योश्चित्तार्थोर्विभक्तः पृथगेव पन्याः स्वरूपभेदोनयनवर्त्म विरुद्धधर्मद्यरूपमेकानेकत्वरूपमित्यर्थः । क्षणिकविज्ञानमेव परेषां चित्तमित्यतः चित्तावेदेनैव विज्ञानभेदोर्थेषु सिद्ध इति भावः । तत्रादौ भाष्यकारो ऽनुभव. बलात हेतुं साधयति । बहुचित्तालम्बनीभूतमेकं वस्तु साधारणमिति । प्रत्यभिज्ञासिद्धमिति शेषः । सौत्रनुमाने तर्कमादौ दर्शयति। तत् खल्चित्या. दिना प्रतिष्ठमित्यन्तेन । नैकेति । न एकमात्रीयपुरुषचित्तात्मकं तथा नानेकपुरुषीचित्तात्मकम् अपि तु स्वप्रतिष्ठं चित्तातिरेकेणैव स्वातन्त्र्ये. णैव स्थितमित्यर्थः । सिद्धहेतुं योजयितुं पृच्छति । कमिति । उत्तरं, स्त्विति । आदावेकपुरुषीचित्तकल्पितत्वानुपपत्तिमुक्तहेतुना प्रतिपादयति । धर्मापेक्षमिति । पुरुषभेदेनैकस्मिवेव योषिद्वस्तुनि धर्मनिमि. त्तात्सुखज्ञानं सुखवती स्त्याकारवृत्तिर्भवति । अधर्मनिमित्ताच्च दुःखवती स्त्र्याकारवृत्तिरित्येवमादिरूपैश्चित्तभेदोस्ति अतः कस्य पुरुषस्य चित्तेन तत् कल्पितं स्यात् न कस्यापीत्यर्थः । नन्वेवं भवत्वनेकपुरुषचित्तपरि. कल्पितमिति द्वितीयः पतः तत्राह । न चान्यति । नाप्यन्यपुरुषचित्ता. त्मकेन वस्तुना ऽन्यस्य चित्तउपरागः संभवति । परस्वप्नस्य परेणाज्ञानादित्यर्थः । तकं प्रदर्श्य सत्रार्थ व्याचष्टे । तस्मादिति । याह्मयहणयोर्भदेन वैधय॑ण भित्रयोरित्यर्थः । ननु चित्तातिरिक्तार्थवादिनाम् अर्थस्य स्थिरत्वाविरन्तरमेव कथं ज्ञानं भवति । कथं वा एक एवार्थः स्वप्नादिभेदभिनासु वृत्तिषु हेतुः स्यात् । नविलक्षणात कारणात कार्यभेदो घटतइत्याशङ्कायामाह । सांख्यपतति । सांख्यानुसारिमते सुखदुःख. मोहात्मकं भर्वात वस्तु चित्तं चलस्वभावमतो धर्मादिनिमित्तवशात्स. खादार्थमेव चित्तैर्वस्तु संबध्यतति न सर्वदा जानं तथा धादि. निमित्तानुरूपं सुखादयात्मकप्रत्ययं प्रति सुखादात्मकत्वेनैव वस्तु हेतुर्भव. तीति कारणतावच्छेदकभेदात्र द्वितीयोपि दोष इत्यर्थः । बौद्धवादान्तर.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org