________________
२६०
योगवार्तिकम् । निरामकसूनान्तरमवतारयितुं तन्मतमुपन्यस्यति । के चिदाहुरिति । के चिदाहुः । अस्तु ज्ञानादिनोर्थः तथापि ज्ञानसमकालीन एव सोस्तु अन्यदा प्रमाणाभावात, प्रयोगश्चायं ज्ञानसहभरेवार्थी भोग्यत्वात् सुखादि. बदिति । अत्र सुखदृष्टान्तस्तन्मतेनैव अस्मन्मते सुखस्यापि विषये स्थिरत्वात् । रागद्वेषादिश्चोभयसिद्धो दृष्टान्तति । अर्थस्य ज्ञानसहभावित्वेन यत् सिधति तदाह । तएतति । ते च एतेनानुमानेन विषयस्य पुरुषान्तरसाधारण्यं बाधमाना ज्ञानपूर्वोत्तरक्षणेषु विषयमपलपन्तीत्यर्थः । ततश्चाननुभूयमानतया न मोक्षसिद्धिरिति भावः । तत्र प्रत्युत्तरं सूत्रमिदम् । न चैकचित्ततन्वं वस्तु तत्पमाणकं तदा किं स्यात् ॥१६॥
वृत्त्याख्यज्ञानातिरिक्तं तेषां चित्तं नास्तीति ज्ञानमेवात्र चित्तं तत्तन्तं तबियतं तथा च नापि वस्तु एकज्ञाननियतमिति प्रतिज्ञा । तत्र हेतुः, तदित्यादि । तदा हि तच्चित्तप्रमाणकं वस्तु किं स्यात चित्तापाये कुत्र विलीयेत न कुनापीत्यतो वस्तु स्थिरमिति शेषः । अयं भावः । यदि चित्तस्य कारणे विलीयतइत्युच्यते तदा घटादिरूपार्थानां लाघ. धाच्चित्ताभेदापत्त्या विज्ञानवादिमतएव प्रवेशः तच्च दूषितं यदि च मृदादिषतच्येत तदा विनाशकारणाकाकायां परिदृष्टस्य मुद्गरपातादेरेव नाशकारणत्वेन चित्तनाशसमकालं घटादिवस्तुनाशानुपपत्तिरिति । हेतु. पदस्यममेवाचं भाष्यकार आह । एकति । एकचित्तनियतं चेद्वस्तु स्वात्तदा तच्चित्ते विषयान्तरसञ्चारिणि निरुद्ध वा सति अस्वरूपमेव तद्वस्तु अतस्तदानी त्किं स्यात्, शेषमस्वरूपत्वे हेतुः । अप्रमाणकामत्यस्य विवरणं केन चिदगृहीतस्वभावकसित । स्वयमधिकं परयति । संबध्यमानं चेति। चित्तेन समकालं पावित्वात्कृत उत्पदोत न कुतोपी. त्यर्थः । पूर्ववदयं भावः । यदि चित्तस्य कारणादेवोत्पत्तिरुच्यते तदा
• समकालभावभाबित्वादिति पा० २।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org