________________
योगवार्तिकम् ।
चित्ताभेद एव स्यात् यदि च बाह्यकारणात् भेदाच्चित्तव्यभिचार्यपि स्यात् स्वतन्त्र कारणेनेोत्पादनात् परिदृष्टानां दण्डचक्रादीनामेव कारण चित्त्येन चित्तव्यभिचारसिद्धिश्चेति । बाधकान्तरमाह । ये चास्येति । अस्यार्थस्य गृह्यमाणस्याप्रतीयमाना ये च पृष्ठादांशास्तेप्यप्रामाणिकत्वादसन्तः स्युः । एवं च पृष्ठाद्यभावादुदरं प्रतीयमानमपि न गृह्येत, सत्यतयेति शेषः । उदरस्य पृष्ठादिव्याप्ततया पृष्ठाद्यभावेनोदराभावसिद्धेरिति भावः । परमतमपाकृत्य स्वमतमुपपत्रतयोपसंहरति । तस्मादिति । उभयत्र स्वतन्त्रशब्दो ऽन्यान्यनैरपेक्ष्यबोधनाय । भोग इति । वियोगाच्चानुपलब्धिमौत इति शेषः । चित्ततदर्थयोर्विवेकप्रकारो दर्शितः । इदानीं ज्ञातविषयत्वसदाज्ञातविषयत्वाभ्यां चित्तात्मनोर्विवेकप्रकारमाह सूत्राभ्याम् । अस्यैव च मेोचहेतुज्ञानविषयस्य विवेकस्ये पोद्घातसंगत्या कार्यकारणयश्चित्तार्थयेाश्च विवेकः पूर्व दर्शितः यावद्धि कार्यभिनं कारणं न सिद्ध्यति न तावद्वृत्तिकारणतया चित्तं स्थित सिध्यति येन ज्ञाताज्ञातविषयत्वं चित्तस्य स्यात् यावद्वा चित्तार्थयेोर्भेदापि न सिध्यति न तावदपि चित्तस्य ज्ञाताज्ञातविषयत्वं सिध्यति ततः कुतो ज्ञाताज्ञातविषयत्वसदाज्ञातविषयत्वाभ्यां चित्तात्मनेोर्विवेक इति भावः ।
तदुपरागापेचित्वादस्य वस्तु ज्ञाताज्ञानम् ॥ १७ ॥
चित्तस्य कालभेदेन ज्ञातमज्ञातं च वस्तु भवति । कुतः | अर्थकारतारूपोपरागसापेक्षत्वात् अर्थज्ञानइति शेषः । अतो ज्ञाताज्ञातविषयतया चित्तं परिणाम्यपीति भावः । नन्वर्थाकारतातिरिक्तं किं बुद्धज्ञानमस्ति यत्र तस्या अपेक्षेाच्यतइति चेत्र । भूतप्रकाशवत्स त्वस्यापि कश्चन प्रकाशोस्ति सुषुप्यादिव्यावृत्तोऽनुभवसिद्धः तस्यैवान्याकारावच्छित्रस्य बुद्धिधर्मज्ञातत्वादिति । उपरागकारण प्रदर्शनपूर्वकं सूत्रं व्याचष्टे । स्का । अयस्कान्तमणिवदक्रिया एव विषया प्रयोवत् क्रियाशीलं चित्तं स्वमहिवाकृष्य स्वस्मिन् संयोज्य तदुपरज्जयन्ति स्वाकाराकारयन्तीति लाक्षारसवस्त्रम् अतो येन विषयेोपरक्तं यच्चित्तं स विषयस्तस्य ज्ञात इत्यर्थः ।
Jain Education International
२८१
For Personal & Private Use Only
www.jainelibrary.org