________________
२८२
योगवार्तिकम् । इतरे चाज्ञाता इत्यर्थः । यद्यपि चित्तस्य जडत्वान ज्ञानं चैतन्यस्यैव ज्ञानत्वात तस्य च पौरुषेयत्वात् उभयत्र ज्ञानकल्पने गौरवात् सत्त्वस्य प्रकाशरूपता च प्रतिबिम्बग्रहणक्षमनैर्मल्यमानं तथापि तप्तायोवावहारतो बुद्धिसत्त्व. प्रकाशोपि ज्ञानशब्देनोक्तः । सूत्रतात्पर्यविषयं पुरुषाद्वैधान्तरं हेयताया विवेकस्य च बीजं चित्तस्य च दर्शयति । वस्तुन इति । अतो ज्ञाताजातव. स्तुकत्वान्यथानुपपत्त्या चित्तम्योपरागाख्यपरिणामः सिद्ध इत्यर्थः । घटा. दीनामपि साक्षात्पुरुषविषयत्वे पुरुषस्यापि ज्ञाताजातविषयत्वं स्यादित्या. शयेन परयित्वोत्तरसूत्रमुत्थापति । यस्य विति । सदा ज्ञाताश्चितत्तयस्तत्प्रभाः पुरुषस्यापरिणामात् ॥ १८ ॥
यस्य तु तदेव विषयोपरक्तमेव चित्तं विषयो नान्यत अतस्तस्य तत्प्रभोश्चित्तसाक्षिणः पुरुषस्य विषयाश्चित्तरत्तयः सदाज्ञाताः पुरुषस्या. परिणामादित्यर्थः । परिणामित्वे हि कदाचित्पुरुषस्यान्ध्यापत्त्या विदा. मानापि चित्तवृत्तिनं जायेत । तदा च तस्यापि ज्ञाताजातोभयरूपत्वे अहं सुखी न वा दुःखी न वेच्छामि न वेत्यादिसंशयः स्यात् एतादृशश्च संशयो न दृश्यते अतो वृत्तरजातसत्ता नास्ति ततश्च पुरुषोऽपरिणामीत्यायातम् । ननु पुरुषस्यापरिणामित्वस्य व्यवस्थापने किमिति सांख्ययोगयोरायह इति चेत शृणु । यदि हि पुरुषस्य ज्ञानादिलक्षणधर्मः कश्चन मोक्षे नश्येत् तदा व्ययदोषेण दारिद्रावत मोक्षो न परमपुरुषार्थः स्यादिति अस्मिन् सूत्रे बुद्धिवृत्तिरेव पुरुषस्य विषय इति लब्धम्। अत एव पुरुषो विषयी नित्यं सत्त्वं च विषयः स्मृत' इत्यनुगीतायां नियमित्यनेन सत्त्वाख्याया बुद्धिवृत्तेरेव पुरुषविषयत्वमुक्तम् । सूत्रतात्पर्यविषयं चित्ताद्वैधम्यं भाष्यकार आह । यदीति । भाष्यं सुगमम् । ननु यदि चित्तमेव पुरुषस्य विषयहि शब्दादिप्रकाशः कथं स्यात् चित्तस्याचेतनत्वेन विषयतामात्रेण प्रकाशासंभवा. दिति चेत्र । चित्तारूढतयैव शब्दादीनां पुरुषे भावादिति । ननु सर्वसंबदुत्वाविशेषैपि चित्तमेव पुरुषस्य विषयो नान्य इत्यत्र का युक्तिरिति चेच्छणु । अर्थाकारतैव विषयवियिभावो न तु संयोगमात्रम् अतीन्द्रियेषु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org