________________
योगवार्तिकम् ।
२८३
संयोगसत्त्वेपि चित्तविषयत्वाभावात् सा चार्थकारता प्रतिबिम्ब रूपैव पुरुषे स्वीकार्य स्वतोऽपरिमाणित्वस्य साधितत्वात् अतः पुरुषे प्रतिबिम्बसम र्पणसामर्थ्यं वृत्तिमत्स्वचित्तस्यैव फलबलात् कल्प्यते यथा जलादो प्रतिबि`म्बनसामर्थ्यं रूपवत् स्यूलद्रव्यस्यैवेति । तदेताभ्यां सूत्राभ्यां चित्तविधर्मतया चित्तातिरिक्तो मोक्षभागी पुरुषः प्रतिपादितः । आभ्यां च सूत्राभ्यामज्ञानमिच्छादिविकारजातं च चित्तनिष्ठमेव न तु पुरुषनिष्ठ मित्यवगन्तव्यम् । ननु पुरुषस्य सदाज्ञातविषयत्वेन ज्ञानपरिणामो मास्तु इच्छासुखादिपरिणामे तु किं बाधकमिति चेच्छृणु । पुरुषस्य सदाज्ञातविषयत्वे सिद्धे लाघवाच्चित्प्रकाशस्वरूपमेकैकमेवात्मद्रव्यं सिध्यति ततश्चाज्ञानस्य चित्तधर्मतया अज्ञानकार्य धर्मादिकं तत्कार्यं चेच्छासुखादिकमपि चित्तस्यैव सामानाधिकरण्यप्रत्यासत्ता लाघवादिति भावः । चित्तस्यैव स्वग्राहकतया सदाज्ञातविषयकत्वं चित्तभोक्तुरसिद्धमित्याशङ्कानिरासकं सूत्रान्तरमवतारयति । स्यादाशङ्केति । वैनाशिकानां चित्तात्मवादिनामिति शेषः । चित्तमेव स्वस्य विषयस्य च प्रकाशक्रमग्निवद्भविष्यति कृतम परिणामिनान्येनेत्याशङ्का वैनाशिकानां स्यादित्यर्थः । अत्राग्निचित्तयोः साधारणं प्रकाशकत्वम् अखण्डेोपाधिः प्रकाश इति व्यवहारहेतुः स्वाभासतारूपसाध्ये प्रवेशनीयः । तेनाग्निचेतनयेोरेकरूपप्रकाशाभावेपि न क्षतिः । तथा च श्रुतिस्मृत्योरपि आत्मनि नाम्न्यादित्यादिदृष्टान्तानुपपत्तिरिति तामिमामाशङ्कां सूत्रेण परिहरति ।
न तत्वाभासं दृश्यत्वात् ॥ १८ ॥
1
व्याचष्टे । यथेतराणीति । अन्तःकरणस्यैक्याच्चित्तमेव मन इत्युक्तवान् । अत्रायं प्रयोगः । चित्तं न स्वाभासं स्वगोचरवृत्त्यभावकाले न स्वप्रकाश्यं दृश्यत्वात् इन्द्रियशब्दादिवदिति । तथा च स्वगोचरवृत्त्यभावकाले चित्तभानार्थं पुरुषः सिझतीति भावः । वृत्तिभानार्थं नियमेन वृत्तिकल्पने चानवस्यां सूत्रकार एव वक्ष्यति, स्वप्रकाश्यत्वं च पुरुषे प्रसिद्धम् । पुरुषस्य स्वज्ञेयतायाः प्रागुक्तत्वेन व्यभिचारः स्यादतः साध्ये काल इत्यन्तम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org