________________
२९४
योगवार्तिकम् । अग्न्यादौ च स्वभासत्वमेव नास्तीति वयति । अतो न तत्रापि व्यभिचारः, दृष्टान्ते च सर्वदेव स्वप्रकाश्यत्वाभावोस्तीति । अत्र च कर्मकर्तृ. विरोधो विपक्षबाधकस्तर्कः कर्मकर्तृविरोधे च स्वस्मिन्स्वसंयोगानुपपत्तिस्तर्कः । तथा च वक्ष्यति । प्रकाशश्चायं प्रकाश्यप्रकाशसंयोगे दृष्टो न स्वरूपेस्ति संयोग इति । तथा परसमवेतक्रियाफलभागित्वरूपकर्मत्वं न क्रियाश्रये कर्तरि संभवतीति । आधुनिकवेदान्तिब्रुवास्तु चित्तादिकं न द्रष्ट दृश्यत्वादित्येवं प्रयुञ्जते । पुरुषस्तु कर्मकर्तृविरोधादृश्य एव न भवति पुरुषगोचरस्तु व्यवहारः पुरुषसतैव पुरुषेण भवति प्रकाशगोचरव्यवहारे प्रकाशान्तरानपेक्षादर्शनादित्याहुः । तत्र । चित्तवृत्तावप्येवं परैदृश्यत्वस्य सुवचतया चित्तातिरिक्तपुरुषसिद्धानुपपत्तेः । वृत्तिगोचरव्यवहारस्यापि स्वरूपसत्या वृत्त्यैव वक्तुं शक्यत्वात प्रकाशगोचरव्यवहारमाने प्रकाशानपेनेत्येव हि दृष्टं तत्र चित्तं वा पुरुषो वेति न कश्चन विशेषः । अपि च स्वप्रकाशं निरज्जनमित्यादिश्रुतिस्मृत्युक्तं स्वप्रकाशत्वमप्यदृश्यत्वे सति पुरुषस्य यथाश्रुतं नोपपोत यौगिकार्थत्यागात् । किं च पुरुषानप्ठफलाजनकत्वेनात्मतत्त्वाकारा चित्तवृत्तिः प्रमाणमेव न स्यादित्यादिदोषप्रक्तिरिति । कर्मकर्तृविरोधस्तु पुरुषस्य ज्ञेयत्वोप नास्ति चेतनप्रति. बिम्बितबुद्धित्तिव्याप्यत्वरूपस्यैव जेयत्वस्य पदवदेव बुद्धिवृत्त्यारूढरूपो दृश्यो दर्पणारूढमुखवत् केवलस्तु द्रष्टेति प्रकारभेदात्कथं कर्मकर्तृवि. रोध इति दिक् । कर्मकर्तृविरोधस्तु बौद्धमतएव भवति चित्तातिरिक्त द्रष्ट्रनभ्युपगमेन करणान्तरानभ्युपगमेन च द्रष्टरि साक्षादेव स्वप्रतिबि. म्बादेरनुपपत्तिरिति चित्तस्य स्वाभासत्वेग्निदिति परोक्तदृष्टान्तस्यासि. द्विमाह । न चाग्निरत्रेति । अत्र स्वाभासत्वे न ह्यग्निरिति याग्निः पूर्व तमसा पिहितः पश्चादात्मानं प्रकाशयतीति क्वचिदृष्टं स्यात्तदाग्नेः स्वप्रका. श्यत्वं पुरुषस्येव सिद्धोत तदेव तु नास्तीत्यर्थः । ननु पुरुषोपि प्रकाश. स्वरूप एव सर्वदा तमस्तु बुद्धिरत्तरेव प्रतिबन्धकमिति चेत्सत्यम्। तथापि बुद्धिवृत्त्याख्यकरणाभावकाने स्वात्मानमविषयीकृत्य करणकाले विषयीकरोतीत्ययमग्नितो विशेषोस्त्येवातः प्रकाशस्वरूपतादिसाम्येपि पुरुषः स्व.
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org