Book Title: Yogvarttikam
Author(s): Vigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
Publisher: Vigyanbhikshu Ramkrushna Shastri Keshav Shastri

View full book text
Previous | Next

Page 297
________________ योगवार्तिकम् । २८३ संयोगसत्त्वेपि चित्तविषयत्वाभावात् सा चार्थकारता प्रतिबिम्ब रूपैव पुरुषे स्वीकार्य स्वतोऽपरिमाणित्वस्य साधितत्वात् अतः पुरुषे प्रतिबिम्बसम र्पणसामर्थ्यं वृत्तिमत्स्वचित्तस्यैव फलबलात् कल्प्यते यथा जलादो प्रतिबि`म्बनसामर्थ्यं रूपवत् स्यूलद्रव्यस्यैवेति । तदेताभ्यां सूत्राभ्यां चित्तविधर्मतया चित्तातिरिक्तो मोक्षभागी पुरुषः प्रतिपादितः । आभ्यां च सूत्राभ्यामज्ञानमिच्छादिविकारजातं च चित्तनिष्ठमेव न तु पुरुषनिष्ठ मित्यवगन्तव्यम् । ननु पुरुषस्य सदाज्ञातविषयत्वेन ज्ञानपरिणामो मास्तु इच्छासुखादिपरिणामे तु किं बाधकमिति चेच्छृणु । पुरुषस्य सदाज्ञातविषयत्वे सिद्धे लाघवाच्चित्प्रकाशस्वरूपमेकैकमेवात्मद्रव्यं सिध्यति ततश्चाज्ञानस्य चित्तधर्मतया अज्ञानकार्य धर्मादिकं तत्कार्यं चेच्छासुखादिकमपि चित्तस्यैव सामानाधिकरण्यप्रत्यासत्ता लाघवादिति भावः । चित्तस्यैव स्वग्राहकतया सदाज्ञातविषयकत्वं चित्तभोक्तुरसिद्धमित्याशङ्कानिरासकं सूत्रान्तरमवतारयति । स्यादाशङ्केति । वैनाशिकानां चित्तात्मवादिनामिति शेषः । चित्तमेव स्वस्य विषयस्य च प्रकाशक्रमग्निवद्भविष्यति कृतम परिणामिनान्येनेत्याशङ्का वैनाशिकानां स्यादित्यर्थः । अत्राग्निचित्तयोः साधारणं प्रकाशकत्वम् अखण्डेोपाधिः प्रकाश इति व्यवहारहेतुः स्वाभासतारूपसाध्ये प्रवेशनीयः । तेनाग्निचेतनयेोरेकरूपप्रकाशाभावेपि न क्षतिः । तथा च श्रुतिस्मृत्योरपि आत्मनि नाम्न्यादित्यादिदृष्टान्तानुपपत्तिरिति तामिमामाशङ्कां सूत्रेण परिहरति । न तत्वाभासं दृश्यत्वात् ॥ १८ ॥ 1 व्याचष्टे । यथेतराणीति । अन्तःकरणस्यैक्याच्चित्तमेव मन इत्युक्तवान् । अत्रायं प्रयोगः । चित्तं न स्वाभासं स्वगोचरवृत्त्यभावकाले न स्वप्रकाश्यं दृश्यत्वात् इन्द्रियशब्दादिवदिति । तथा च स्वगोचरवृत्त्यभावकाले चित्तभानार्थं पुरुषः सिझतीति भावः । वृत्तिभानार्थं नियमेन वृत्तिकल्पने चानवस्यां सूत्रकार एव वक्ष्यति, स्वप्रकाश्यत्वं च पुरुषे प्रसिद्धम् । पुरुषस्य स्वज्ञेयतायाः प्रागुक्तत्वेन व्यभिचारः स्यादतः साध्ये काल इत्यन्तम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330