Book Title: Yogvarttikam
Author(s): Vigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
Publisher: Vigyanbhikshu Ramkrushna Shastri Keshav Shastri

View full book text
Previous | Next

Page 295
________________ योगवार्तिकम् । चित्ताभेद एव स्यात् यदि च बाह्यकारणात् भेदाच्चित्तव्यभिचार्यपि स्यात् स्वतन्त्र कारणेनेोत्पादनात् परिदृष्टानां दण्डचक्रादीनामेव कारण चित्त्येन चित्तव्यभिचारसिद्धिश्चेति । बाधकान्तरमाह । ये चास्येति । अस्यार्थस्य गृह्यमाणस्याप्रतीयमाना ये च पृष्ठादांशास्तेप्यप्रामाणिकत्वादसन्तः स्युः । एवं च पृष्ठाद्यभावादुदरं प्रतीयमानमपि न गृह्येत, सत्यतयेति शेषः । उदरस्य पृष्ठादिव्याप्ततया पृष्ठाद्यभावेनोदराभावसिद्धेरिति भावः । परमतमपाकृत्य स्वमतमुपपत्रतयोपसंहरति । तस्मादिति । उभयत्र स्वतन्त्रशब्दो ऽन्यान्यनैरपेक्ष्यबोधनाय । भोग इति । वियोगाच्चानुपलब्धिमौत इति शेषः । चित्ततदर्थयोर्विवेकप्रकारो दर्शितः । इदानीं ज्ञातविषयत्वसदाज्ञातविषयत्वाभ्यां चित्तात्मनोर्विवेकप्रकारमाह सूत्राभ्याम् । अस्यैव च मेोचहेतुज्ञानविषयस्य विवेकस्ये पोद्घातसंगत्या कार्यकारणयश्चित्तार्थयेाश्च विवेकः पूर्व दर्शितः यावद्धि कार्यभिनं कारणं न सिद्ध्यति न तावद्वृत्तिकारणतया चित्तं स्थित सिध्यति येन ज्ञाताज्ञातविषयत्वं चित्तस्य स्यात् यावद्वा चित्तार्थयेोर्भेदापि न सिध्यति न तावदपि चित्तस्य ज्ञाताज्ञातविषयत्वं सिध्यति ततः कुतो ज्ञाताज्ञातविषयत्वसदाज्ञातविषयत्वाभ्यां चित्तात्मनेोर्विवेक इति भावः । तदुपरागापेचित्वादस्य वस्तु ज्ञाताज्ञानम् ॥ १७ ॥ चित्तस्य कालभेदेन ज्ञातमज्ञातं च वस्तु भवति । कुतः | अर्थकारतारूपोपरागसापेक्षत्वात् अर्थज्ञानइति शेषः । अतो ज्ञाताज्ञातविषयतया चित्तं परिणाम्यपीति भावः । नन्वर्थाकारतातिरिक्तं किं बुद्धज्ञानमस्ति यत्र तस्या अपेक्षेाच्यतइति चेत्र । भूतप्रकाशवत्स त्वस्यापि कश्चन प्रकाशोस्ति सुषुप्यादिव्यावृत्तोऽनुभवसिद्धः तस्यैवान्याकारावच्छित्रस्य बुद्धिधर्मज्ञातत्वादिति । उपरागकारण प्रदर्शनपूर्वकं सूत्रं व्याचष्टे । स्का । अयस्कान्तमणिवदक्रिया एव विषया प्रयोवत् क्रियाशीलं चित्तं स्वमहिवाकृष्य स्वस्मिन् संयोज्य तदुपरज्जयन्ति स्वाकाराकारयन्तीति लाक्षारसवस्त्रम् अतो येन विषयेोपरक्तं यच्चित्तं स विषयस्तस्य ज्ञात इत्यर्थः । Jain Education International २८१ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330