Book Title: Yogvarttikam
Author(s): Vigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
Publisher: Vigyanbhikshu Ramkrushna Shastri Keshav Shastri

View full book text
Previous | Next

Page 275
________________ योगवार्तिकम् । २६१ परस्परष्यभिचारानिमित्तानां न साक्षात्कारणत्वसंभवः । तृणारणिम. ण्यादिषु चान्यादिकारणत्वे अन्योन्यभिचारो लोकसिद्ध एवास्ति अतः सहकार्यप्रयुक्ता प्रतिरव परिणामे कारणं स्वतन्त्रेति सिद्धम् । ननु प्रकृतिश्चेत स्वतन्त्रा केन प्रकारेण हि धर्मेश्वरयोगिसंकल्यादीनां प्रकृतिपरिणामहेतुत्वमिति पृच्छति । कथं तीति । सूत्रार्दुनोत्तरमाह । वरणभेदस्तु ततः क्षेत्रिकदिति । अपां पूर्णादिः पूर्णात्, केदारान्तरस्य विशेषणं सर्मामत्यादित्रिकम् । अपकर्षति क्षिपति प्रावरणमालवालम् । स्वस्वं विकारमिति । स्वस्वसजातीयं विकारं व्यामन्ति विकारप्रसूतीनां परिणामान्तमित्यर्थः । प्रकृतकार्यान्द्रयप्रकृत्यभिप्रायेणोक्तं गुणाद्गणान्तर. मालावयन्तीयाप बोध्यम् । क्रियावदारम्भकसंयोगोपि प्रकृतेः स्वत एव भवतीयपि तेनैव दृष्टान्तेन प्रतिपादयति । यथा चेति । न तु प्रतिप्रवृत्ताविति । संयोगविशेषेष्वपीति बोध्यम् । तथा चाधर्मादिप्रतिबन्धनिवृत्तिद्वारेणैव धर्मादिः परिणामकारणमिति सिद्धम् । अयं भावः । यथा संस्कार एव स्मृतिहेतुः सदृशादृष्टचिन्तादयस्त्वननुगततया संस्कारस्यो. द्वोधकमात्राः । उद्बोधश्च निद्रादिदोषरूपावरणभङ्गः । तथैव प्रकृतिरेव जगत्कारणं कालकमश्वरादयस्तु प्रकृतेः कार्यजननशक्त्युद्धोधकाः तत्र धर्माधी स्वधर्मविरुद्धधर्मान्तररूपावरणभड़ेनोवोधको ईश्वरस्तु साम्यपरिणामादिरूपाखिलावरणभङ्गेनोवोधकः कालादयस्तु धर्मायुद्धोधकतया दण्डादयस्तु कार्यान्तराभिक्तिप्रतिबन्धकतयेत्येवं यथायोग्यमहनीयम् । एतदेव निमित्तकारणतेति गीयते अव्यभिचारात्तु संयोगस्य समवायिकारणत्वमिष्यतएव द्वारत्वात् न तेन प्रकृतेः स्वातन्त्र्यहानिरिति । धर्मस्या. धर्मरूपप्रतिबन्धापसारणद्वारा कार्यान्द्रयपरिणामनिमित्तत्वे उदाहरणमाह। अत्र नन्दीति । नन्दिनामा मनुष्य ईश्वरो जात इति नन्दीश्वरः । एवं नहुषाजगरोपि व्याख्येयः । सिद्वादीनां कार्योन्द्रयपरिणाश्चिन्तितः । इदानी सिद्धानां चित्तपरिणामनिर्णायकं सूत्रमवतारयति । यदेति । एकमनस्का निर्मातृमनोमात्रेणैव व्यवहारभाजः। अनेक्रमनस्काः निर्मातृमनोतिरिक्तप्रातिस्विकमनोभाजः। . Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330