________________
२३३
योगवार्तिकम् । दिविलयात् केन करणेन तदानी विज्ञातारमात्मानं पुरुषो विजानीया. दित्यर्थः । अत्र हि श्रुती करणेन पुरुषस्यैव स्वजेयत्वमवगम्यते । अजेयत्वे च विज़ातारं को विजानीयादिन्येबोच्यतेति । दयं श्रुतिः पुरुषस्य सर्व देवाजेयत्वं वदन्तीति कश्चित् तत्र । यतो न प्रेत्य संज्ञास्तीति पूर्ववाक्ये याज्ञवल्क्येन मोक्षकाले ज्ञानस्वरूपोपि पुरुषो न जानातीत्युक्तम् अखिलदुःखभोगनित्तिरूपपरमपुरुषार्थमा प्रदर्शयितुम् । तत्र विशेषं दृष्ट्वा मूठाया मैत्रेय्यास्तविरोधपरिहारायैवेदं वाक्यं प्रवर्त्तने न तु पुरुषस्याज्ञेयत्वप्रदर्शना. य अप्रकृताभिधानप्रसङ्गादिति । ननु भवन्मपि पराजेयत्वेन कथं मैत्रेय्याः शङ्कापगच्छत्तीति चेत्र । 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्यदिति पूर्व युत्यैव विरोधस्य परिहतत्वात् । स्वयं ज्ञानस्वरूपोपि सर्वकरविलयान्मोतकाले किमपि न विजानातीति तत्र च मैत्रेय्या कदाचिदाशयत मोक्षकाले नभिव्यक्त्या आत्मा ज्ञानस्वरूप एव मास्त्विति तत्रोत्तरं वा. क्यं प्रवर्त्तते येनेदं सर्व विजानाति तं केन विजानीयात् विज्ञातारमरे केन विजानीयादिति । आत्मा र्याद ज्ञानस्वरूपो न भवति तद्विषयकज्ञानान्तरकल्पने ऽनवस्यादिमिति श्रुतेराशयः । स्वार्थप्रत्ययसंयमेन पुरू'षसाक्षात्कारे जाते सति तल्लिङ्गरूपाणि विवेकजज्ञानस्य च पूर्वरूपाणि प्रतिभाव्याः सिद्धयो भवन्ति ताश्च पुरुषैकाग्रतापरिपन्यित्वेनासंप्रजातयोगविघ्नभूता एवेति प्रतिपादयितुमादी ताः प्रदर्शयति । ततः प्रातिभश्रावणवेदनादर्शास्वादवाती जायन्ते ॥ ३५ ॥
ततः पुरुषसाक्षात्कारात मनादीनां प्रातिभादिसंजिकाः सिद्धयः | सामर्थ्यविशेषरूपा भवन्ति यस्मात्सामान्मनादिषु व्यवहितादिज्ञानं भवतीत्यर्थः । अत्र कश्चित् । तत इति तच्छब्देन पुरुषजानं न परामृश्यते । तदर्शनप्रत्यनीकत्वादित्यागामिपूत्रभाष्ये पुरुषदर्शनप्रतिबन्धकत्ववचनाद. पि तु स्वार्थसंयम एव परामृश्यते तथा च पूर्वसूत्रोक्तसंयमस्यैवेदं पुरुषज्ञा. नात्प्राक्तनं सिद्धान्तमिति। तत्र । एकस्याः पुरुषज्ञानरूपसिढेरुक्ततया चका
* प्रतिभाषाट्या इति पा० २।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org