________________
२३२
योगवार्तिकम् ।
र्शनमिति । न चात्रकर्मकर्तृविरोधः । कर्मकर्तृविरोधे हि स्वस्मिन् स्वसंबन्धानुपपत्तिरेव बीजं प्रकाश संबन्धस्यैव प्रकाश्यतारूपत्वात् । अनुभवप्राप्यारेकार्यत्वाच्च । स च संबन्ध एकस्मिन्नपि बिम्बप्रतिबिम्बाख्यरूपभेदेनेोपपत्र इति । अथैवमपि परसमवेतक्रियाफलभागित्वरूपं कर्मलक्षणं पुरुषे न घटतइति चेन्न । विशिष्टाविशिष्टरूपेण ज्ञातृज्ञेययेर्भेदसत्त्वात् । ग्रात्माकारवृत्त्यः वच्छिन्नस्य जातृत्वात् केवलस्य ज्ञेयत्वात् । न चैवमेकवृत्त्यवच्छित्रबुद्धेर्वृ त्यन्तंरावच्छिन्नबुद्धिग्राह्यत्व संभवात् पुरुष कल्पना व्यर्थेति वाच्यम् । अनव स्यादिद्रोपैः सूत्रेण निरस्यत्वादिति । यत्तु आधुनिकवेदान्ति ब्रुवानुसारेणास्मदीयोपि कश्चित् आत्मनो ज्ञेयत्वाभावमेव वदति तत् यथाश्रुतसूत्रभाष्यविरोधादुपेक्षणीयम् । स्वप्रकाशत्वं चात्मनः स्वज्ञेयत्वमेव 'चेतनात्मा स्ववेदन' इत्यादिस्मृत्यनुसारात् । शब्दस्य योगार्थपरित्यागानौचित्याच्च । बुझा दिजडवर्गव्यावृत्तेस्तेनैव संभवाच्चे यादिकं ब्रह्ममीमांसायां प्रतिपादितमस्माभिः । यदपि वृत्तित्र्याप्यत्वनात्मनेाभ्युपेत्य फलव्याप्यत्वं वेदान्तिब्रुवैरपलप्यते तदपि मोहादेव फलव्याप्यत्वस्य सामान्यतो व्यवहारहेतुताया: क्लृप्रत्वेन चैतन्याख्यफलव्याप्यतां विना चैतन्यव्यवहारानुपपत्तेः । अन्यथा घटादिव्यवहारस्यापि वृत्तिव्याप्यत्वेनैवोपपत्ता विश्वप्रकाशकतया चैतन्यकल्पनावैयर्थ्यात् । ‘यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सहेत्यादिवाक्यानि च लौकिकमनयादिवृत्यगोचरत्वमेव प्रतिपादयन्त मनसैवानुद्रष्टव्यमित्यादिश्रुत्यन्तरात् । अध्यात्मयोगाधिगमेन देवं मत्त्वा धीरो हर्षशो की जहाति इत्यादिश्रुत्या योगिमनोविषयत्वावगमाच्च । न तु फलव्याप्यत्वं निराकुर्वन्ति मनप्रादीनां जडत्वेन फलानाधारत्वात् । फलं विना शास्त्रादीनां ब्रह्म प्रमाणत्वादिदोषासंभवादिति दिक् । पुरुषस्यैव स्वज्ञातृत्वमित्यत्र श्रुतिं प्रमाणप्रति । तथा युक्तमिति । ईश्वरेणेति शेषः । आत्मा यदि न नित्यज्ञानरूपस्तर्हि केन ज्ञानान्तरेणविज्ञातारमात्मानं लोको विज्ञानीयादित्यर्थः । यद्वा मोक्षकाले बुझा
।
* प्रमाणत्वादिदोषेत्यत्र प्रमाणत्वासंभवादित्येव पाठान्तरं युक्तं भाति । न क्वापि पुस्तके तथा दृश्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org