________________
योगवार्तिकम् ।
२३१
न वेत्ति यत ईतणान्यथानुपपत्त्या सान्तरासवान प्रतिबिम्बितान, तत्र दृष्टा. न्तो मुखलग्नां मसीमिवेत्यर्थः । परार्थादित्यायुत्तराधं संयमसिद्धिप्रदर्शक व्याचष्टे । स भोगप्रत्यय इत्यादिना जायते इत्यन्तेन । सो ऽविभागापत्र उभयात्मको भोगाख्यः प्रत्ययः सत्त्वस्यांशः परार्थत्वात् परप्रयोजनकत्वात दृश्यः । यस्तु तस्मात् पराादन्यो विशिष्टः स्वार्थः परस्य बुझादेरदृश्यः सातादृश्यश्च चैतन्यमात्रः पौरुषेयः पुरुषांशः प्रत्ययः भोगाख्यः तत्र ययोतविवेकेन संयमात्साक्षात्कारपर्यन्तात पुरुषसाक्षात्कारो भवतीत्यर्थः। अत्रान्यपदाध्याहारः कृतः तदनेन सूत्रेण भोगापवावपि व्याख्याता स्वयं च मुख्य एव भोगो ऽविविक्तप्रत्ययद्वयात्मको लोकव्यवहारसिद्धः विवेकग्रहे सति परकीयसुखादिसाक्षात्कारइव स्वीयसुखादिसाक्षात्कारपि भोगव्यवहारयोगात् सायं भोगो ऽविवेकप्राधान्येन कुत्र चित बुढेरेवेत्यप्यु व्य. ते । तथा सायं भोगोंशभेदेनेभयोरेव भवति । तत्रैव गाणो भोगः सांख्ये प्रोक्तः 'चिदवसानो भोग' इति । स च पुरुषस्यैव न बुद्धेः पुरुषोस्ति भोक्तभावादिति सांख्यवाक्यात् । अन्यस्तु विपाकान्तर्गतो भोगः शब्दादयाकारवृत्तिः स च बुद्धेरेव तावेतो भोगापवा बुद्धावेव वर्तमानाविति भाष्यात् । स हि तत्फलस्य भोक्तेति तत्र तत्र भाष्यकृता विपाकफलस्य सुखदुःखागान्तरवचनाचेति स्मर्त्तव्यम् । ननु पुरुषज्ञानं भवतीत्युक्तं तत् पुरुषजानं किं बुद्धिसत्त्वस्य भवति, किंवा पुरुषस्य भवति, आदो बुद्धरपि चेतनत्वापत्तिः स्वोक्तपरादृश्यत्वानुपपत्तिश्च । तथा ते तं न पश्यन्ति स पश्यते तानि इत्यादिवाक्यशविरोधश्च । अन्त्ये स्वस्य स्वजेयत्वेन कर्म. कविरोधः सदैव स्वज्ञानप्रसङ्गश्च । पुरुषस्यापरिणामिचिन्मात्रत्वादिति तामिमामाशयां परिहरति। न च पुरुषस्येति। पुरुषाकारप्रत्ययेन बुद्धिसत्त्वधमैण पुरुषो न दृश्यते न भास्यते तस्य जडत्वात्। अपि तु पुरुष एव तं प्रत्ययं स्वस्वरूपाकारं पश्यति बुझारूढमात्मानं पश्यतीत्यर्थः । स्वस्मिन्प्रतिबि. म्बितमिति शेषः । तथा च स्वप्रतिबिम्बितस्वाकारबुद्धित्तिदर्शनमेव पुरुषस्य पुरुषज्ञानम्। यथा स्वप्रतिबिम्बितघटाकारबुद्धिदर्शनमेव पुरुषस्य घटद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org