________________
| २३०
योगवार्तिकम् । कारो भर्वात तादृशसंयमाभावेपीत्यर्थः । यद्यपि पौरुषेयः प्रत्ययः पुरुषातिरिक्तो न भवति तथापि दृश्योपरागेण परिच्छित्रोंश एव प्रत्ययः श्रोत्रा| दिवत् पुरुषस्त्वपरिच्छितो महाकाशवत् इत्यनयोर्भद इत्यतः प्रत्यये साक्षात्कारपर्यन्तसंयमस्यापरिच्छिनत्वादांशमात्राधिक्येन फलं पुरुषसाक्षात्कार उक्त इति । नन्वत्र सूत्रे भोगलक्षणस्य किं प्रयोजनमिति चेत् । उच्यते । भोगरूपेणैव बुद्धिपुरुषधर्मयोरविवेकात मिणाः सांकर्यमतो भोग्यमध्यएव तदुर्मयोविवेकाय संयमः कार्य इति प्रतिपादयितुम् अनेन सूत्रेण भोगोपि लक्षितः तदेतद्वाख्यातुमादावत्यन्तशब्दस्याभिप्रेतमर्थ प्रकटति । बुद्धिसत्वमित्यादिना । अयमर्थः। न केवलं बाह्मायाकारबुया सहासंकीर्णः पुरुषोपि तु यद्धिसत्त्वं प्रख्याशीलतया समानसत्त्वाधीनत्तिके रजस्तमसी अभिभूय सत्त्वपुरुषान्यतासाक्षात्काररूपेण परिणतं भवति । तस्माच्च । तस्मादपि प्रकृष्ट ज्ञानेश्वयानन्दादिमयाद्विसत्त्वादात्माकारतयात्मकल्पात परिणामिनोत्यन्तविधर्मा पुरुषो विशुद्धः परिणामशून्यो ऽतान्यश्चितिमात्ररूप इति । अत्यन्तशब्दार्थ व्याख्याय भोगप्रतिपादकं सूत्रार्थ व्याचष्टे । तयोरिति । तयोर्बुद्धिपुरुषयोरत्यन्तविधर्मणोरपि प्रत्ययाविशेषः प्रत्यययोविविच्याग्रहणं भोगः । अगृहीतविवेकी प्रत्ययाविति यावत् । अयमधिवेको बुद्धिधर्म इति स्तव्यम् । तत्र बुद्धः प्रत्ययः सुखादिमती विषया. याकारचित्तत्तिः पुरुषस्य प्रत्ययो बुद्धिवृत्तिप्रतिबिम्बाच्छिनचैतन्यांश: सुखादयात्मकशब्दा अनुभवनामा। तयोरविवेके हेतुमाह । पुरुषस्य दर्शितविषयत्वादिति । यतो बुया पुरुष प्रतिबिम्बमर्पितं ततो जपास्फटिकयोरिव धर्मसंकरापत्तेरधिवेक इत्यर्थः । तथा च स्मर्यते
शुद्धोप्यात्मातिसामीप्यादृश्यधान पृथग्विधान् । कर्तृवभोक्तृत्वमुख्यान्मन्यते स्वान्स्ववीक्षितान् । जीवो बर्बाहरितीक्षित्वा स्फुटभिवानपि स्वतः । नेमान्वेत्यन्तरासवान मुखसतां मसीमिव ॥ इति। स्फु भवानपि इमानान जीव ईक्षित्वा स्वस्मादहिरिति स
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org