________________
योगवार्तिकम् ।
२२९ प्रातिमिति । प्रातिभं स्वप्रतिभोत्थम् अनौपदेशिकं ज्ञानं संसार. तरणोपायत्वात् तारकमिति । तारकं सर्वविषयमिति सूत्रे व्याख्यास्यते । तच्च विवेकजस्य वयमाणस्य सार्वज्ञस्य पूर्वलिङ्गम् । तत्र दृष्टान्तो यथा । सूर्यादयस्य पर्वलिई प्रभेति तेन वा प्रातिभज्ञानेन सर्व पूर्वोक्तमतीतानागतादिसिद्धपर्यन्तं योगी जानाति पूर्वोक्तान्संयमान विनापीत्यर्थः । तेनेत्येतद्विवति । प्रातिभस्य ज्ञानस्योत्पत्ताविति । द्वारान्तरापेक्षा नास्तीति भावः । यद्यपि तारकं सर्वविषयमित्यागामिसूत्रे विवेकजज्ञानमेव प्रातिभं तारकं च व्याख्यास्यते तथाप्यत्र प्रातिभादितिहेतुत्ववचनात् विवेकजज्ञा-. नस्य पूर्वरूपमेव लक्षणया प्रातिभं तारकं चेति व्याख्येयम् । ननु संयमसिद्विमध्ये कथं प्रातिभज्ञानजा सिद्धिरुच्यतइति चेत्, न । प्रातिभस्यापि तणतत्क्रमादिसंयमादिजन्यतया वयमाणत्वेन उसिद्धरपि परम्परया संयमसिद्धित्वादिति । संयमस्य चद्रसिद्धयः उक्ता इदानीं संयमस्य सत्त्वपुरुषान्यताख्यातिरूपां मुख्यां सिद्धि विवतुरादौ तत्संयमहेतुभूतायाश्चिलसंविदः कारणमाह ।
हृदये चित्तसंवित् ॥ ३३ ॥
हृदयपदं व्याचष्टे । यदिदमिति । अस्मिन् ब्रह्मणः परमात्मनो जीवस्य च पुरे शरीरे यदिदं दहरं सगत्तं पुण्डरीकाकारं ब्रह्मणो वेश्म तत्र विज्ञानं विज्ञानवृत्तिकमन्तःकरणं ब्रह्मणः सिंहासनकल्यं तिष्ठति अतस्तस्मिन् हृदयाख्ये वेश्मनि संयमाच्चित्तसाक्षात्कारो भवतीत्यर्थः । चित्ते जाते चित्ताद्विवेकेनात्मसाक्षात्कारो भवतीति क्रमानुसारेणाह ।
सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषा भोगः परात्स्वार्थसंयमात्परुषज्ञानम् ॥ ३४ ॥
सत्त्वाधिक्यात्सत्त्वं बुद्धिः । पराादिति पञ्चमी चान्यपदमध्याहृत्य व्याकरिष्यति । तथा च बुद्धिपुरुषयोरत्यन्तविधर्मणाः प्रत्यययाविवेको भोगशब्दार्थः । तयोः प्रत्यययोर्मध्ये परााद्विवेकेन स्वार्थ पौरुषेयप्रत्यये संयमात् साक्षात्कृते सति स्वयमेव पूर्णत्वादाशेषविशेषैः पुरुषस्य साक्षा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org