SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२८ योगवार्तिकम् । मस्य सर्वत्र सिद्धिकथनात संयमानां स्वस्वविषयसाक्षात्कारहेतुतायाः सामान्यत एव सिद्धत्वाच्च । नाभिचक्र कायव्यहज्ञानम ॥ २८ ॥ शरीरमध्यति नाभिकन्दरूपं चक्रं कदलीमलवदादावुत्पन्नं यतः शाखापल्लवादिवच्छिरःपादादिकमवयवजातम् ऊर्ध्वमधश्चाविर्भवति । तस्मिनाभिचक्रे संयमात् साक्षात्कृते कायस्य पदार्थव्यहं वातपित्तत्वगसुगादिरूपं साक्षात क्रियतइत्यर्थः । भाष्ये बाह्ममिति । शुक्रस्य मज्जा बाह्येति । एवमादिरेषां सप्तानां क्रमः विन्यासः शरीरसंस्थानम् । कण्ठकूपे क्षत्पिपासानित्तिः ॥ २ ॥ सन्तोरस्यादिति । अनेनोपरि छिद्रं वारितं कूपादध उरसीत्यागामिभाष्येण च उरःपर्यन्तत्वं कण्ठकपस्य लप्स्यते तथा च जिहाधःस्थस्य तन्तोर्मूलादारभ्य उरःपर्यन्तं छिद्रं कण्ठकूपः कूपाकारश्छिद्रमिति । तति । तस्मिन् प्रदेशे संयमादशेषविशेषतः साक्षात्कृते सति क्षुत्पिपासानिवृत्तिरूपा सिद्धिर्भवतीत्यर्थः । एवंविधेषु च संयमेषु भावनाप्रकारो योगशास्त्रविशेषांत गुरुमुखाच्च प्रत्येतव्यः । कर्मनायां स्थैर्यम ॥ ३० ॥ कर्माकारेति । कुण्डलितसर्पवदवस्थिततया कूर्माकारं हृदयपुण्डरीकाख्यं नाडीचकं तत्र कृतसंयमो योगी स्थिरपदं स्थिरां चित्तत्तिं लभतइत्यर्थः । नायाः कूर्माकारत्वे दृष्टान्तद्वयं यथा सी गोधा वेति कुण्ड. लित इति शेषः । मूईज्योतिषि सिझदर्शनम ॥ ३१ ॥ शिर इति । शिरः कपालमध्ये ऽन्तश्छिद्रं छिद्रस्यान्तः प्रभास्वरं स्वप्रकाशकं ज्योतिरस्तीत्यादिरर्थः । शिरः कपालमध्ये छिद्रं प्रभास्वरत्वाज्ज्योतिरिति प्रामादिकपाठेप्ययमेवार्थी लक्षणया कार्यः । शेषं सुगमम् । प्रातिभाहा सर्वम ॥ ३२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004031
Book TitleYogvarttikam
Original Sutra AuthorN/A
AuthorVigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
PublisherVigyanbhikshu Ramkrushna Shastri Keshav Shastri
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy