________________
योगवार्तिकम् ।
२२७
मुक्तप्रायत्वादीश्वरको टित्वाच्च ब्रह्माण्डस्यान्तर्बहिः स्वातन्त्र्येण व्यापारतया शास्त्रे न ते लोकमध्ये लोकवासिजनमध्ये गणिता इत्यर्थः । तदेवं संक्षेपता भुवनशब्दार्थं व्याख्याय सूत्रवाक्यार्थमाह । एतयोगिनेति । सूर्ये सूर्यद्वारे संयमं कृत्वा योगिनैतद्भवनं साक्षात्करणीयम् । अत्र योगशास्त्रान्तरदर्शनेन द्वारशब्दः पूरित इत्युचीयते सूर्यद्वारं च ब्रह्मणो लोकद्वारभूतं 'सूर्यन्तश्चित्रं स आदित्यमार्च्छति तस्मै स तत्र विजिहीते । यथा भास्करस्य खन्तेन स ऊर्ध्वमाक्रत' इति श्रुता, 'सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो व्ययात्मेति श्रुतौ च तद्भाष्यकृता तथा व्याख्यातत्वात् ।
अनन्ता रश्मयस्त्यस्य दीपवदाः स्थितो हृदि । ऊर्ध्वमेकस्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् ॥ ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् ।
इति स्मरणाच्चेति । न केवलं सूर्यद्वार संयम स्यैव भुवनज्ञानं फलं किं तु योगशास्त्रोक्त संयमान्तरस्यापि इत्यतो रागक्षयार्थम् । अन्यत्र संयमेनापि समग्रभुवनं साक्षात्करणीयम् इत्युपदिशति । ततोन्यत्रापीति । ततः सूर्यद्वारादन्यत्रापि एवं संयमं तावदभ्यसेत् यावदिदं भुवनं दृष्टं भवेदित्यर्थः ॥
चन्द्रे ताराव्यहन्ज्ञानम् ॥ २६ ॥
भाष्यं सुगमम् ॥
ध्रुवे तद्गतिज्ञानम् ॥ २७ ॥
तारास्वरूपाणि ज्ञात्वैव तासां गतिज्ञानं संभवतीत्याशयेन भाष्ये तत इत्युक्तम् । ताराव्य हज्ञानान्तरमित्यर्थः । भाष्यं सुगमम् । अस्मिन्नेव प्रसङ्गे योगशास्त्रान्तरोक्तात् भुवर्लोकस्य वस्त्वन्तरसंयमात् सिद्धिं स्वयं पूरर्यात । ऊद्वैति । ऊर्द्धविमानेष्वादित्यादिरयेषु कृतः साक्षात्कारपर्यन्तः संयम येन स तानि विमानानि रथान् जानीयादित्यर्थः । ननु विमाने संयमस्यैव विमानसाक्षात्कारः सिद्धिरत्रेोक्ता साक्षात्कारपर्यन्तस्यैव संय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org