________________
२२६
योगवार्तिकम् । परिणामने स्वतन्त्राः ध्यानाहारा ध्यानत एव तृप्ताः । जनीकस्यानाह । प्रथम इति । भूतेन्द्रियशिन इति । इन्द्रियाणां परिणामने स्वातन्त्र्यं पूर्वा. पेक्षयैषामधिकम् । द्विगुणेति । द्विगुणं द्विगुणरूपमुत्तरमधिकमायुयैषां ते तथा । ब्रह्मपुरास्थितानामायुः कल्पसहस्रात पूर्वक्ताद् द्विगुणं तदुत्तरस्य तट्टिगुणमेवं क्रमेण वृद्धिरित्यर्थः । तपोलोकस्थानाह । द्वितीय इति । ते भूत इति । भन्द्रिययोः प्रकृतेरहंकारस्यापि वशिन ति पूर्वापेक्षयैषा. माधिक्यम् । अत्राहंकारेणान्तःकरणसामान्ययहणम् । एतेन स्वेच्छयान्यप. रयोनिमाणे चित्तात्पादन.दी समर्था इति । द्विगुणेति । पूर्वानुसारेण व्याख्येयम् । उर्ध्वरेतस इति । प्राणायामवशादूर्ध्वमेव रेतांसि सूत्माणि भूत्वा गच्छन्ति न स्वान्त संभोगाभावाद् येषां ते तथा ऊवं सत्यलो. कादौ ज्ञानमतिहतं शक्यं येषां ते तथा अधोलोकेषु अनावृतो ज्ञानविषयो येषां ते तथेत्यर्थः । सत्यलोकस्यानाह । तृतीय इति । प्रादौ चतुर्णी साधारणानि विशेषणान्याह । अकृतेति । न कृतो भवनन्यासो गृहनिमाणं यैस्ते तथा स्वस्मिन्नेवात्मनि गृहे प्रतिष्ठन्तीति स्वप्रतिष्ठा आत्मवासाः । उपर्युपरिस्थिता इति । अच्युतानामुपरि स्थिताः शुनिः वासाः, एवं क्रमेणेत्यर्थः । तथा च सत्यलोकेप्यवान्तरलोकभेदाः सन्तीत्या. यातम् । प्रधानवशिनः प्रकृती स्वतन्ता ईश्वराट्रिपरायुषः । तेषां चतुणी संजाभेदमवान्तरविशेषं चाह । तत्राच्यता इति । अच्युतसंज्ञकाः सवि. तर्कयोगेनैव सुखिनः शुद्धनिवासादयोप्येवं व्याख्येयाः । तेपि चत्वारोपि त्रैलोक्यमध्ये चतुर्दशभुवनमध्यएव तिष्ठन्ति न ब्रह्माण्डाढहिरित्यर्थः । नन्वेवमण्डस्य सर्वजीवसाधारण्यात् कथं ब्रह्माण्डसंजेत्याकाङ्कायामाह । तएव इति । तएते सप्तलोका अवान्तरं चतुर्दशधा भिवाः सर्व. एवादिपुरुषस्य ब्रह्मणो लोका ब्रह्मणो हिरण्यगर्भ य लिङ्गदेहेन सर्वलो. कव्यापनात पितापुत्रवदंशांशिभावेन सर्वजीवानां ब्रह्माभेदाचेति भावः । ननु असंप्रज्ञातसुखिनौ यो विदेहप्रकृतिलयो ‘भवप्रत्ययो विदेहप्रकृतिलयामा मिति सूत्रोक्ता तयोर्लीकः कथं नोक्तः तत्राह । विदेहेति । तेषां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org