________________
२२५
योगवार्तिकम् । आजया देवदेवस्य महादेवस्य शूलिनः । ब्रह्माण्डानामसंख्यानां ब्रह्मविष्णु हरात्मनाम् ॥ उद्भवे प्रलये हेतुर्महादेव इति श्रुतिः । इति । नारदीये च। सृष्टिस्थित्यन्तकरणे ब्रह्मविष्णुमहेश्वराः । यस्यायुतायुतांशांशास्तद्ब्रह्मभिधीयते ॥
इति। न चास्मिन्वाक्ये परमात्मांशत्त्वमेवाण्डशरीरिणां गम्यते न तु प्रकृत्यंशत्वं ब्रह्माण्डस्यति वाच्यम् । शक्तिक्तिमतोरंशांशिभावेन शक्त्योरप्यंशांशिभावसिद्धेः । अग्निविस्फुलिङ्गादिश्रीतदृष्टान्तेषु तथा दर्शनात् ।
मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् । अस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ इति श्रुतेश्चेति ।
इदानी तत्तल्लोकवासिनो देवादीन् कथयति । तत्र पातालइति। देवनिकायाः देवसमूहा असुरादयश्च प्रतिवसन्तीत्यर्थः । देवाश्च मनुप्याश्च देवमनुष्याः । भलीकस्यानुक्त्वा भुवलीकस्यानाह । ग्रहनक्षत्रेति । नक्षत्राण्यश्विन्यादिसप्तविंशतिरितराणि खुद्रज्योतींषि तारकाः। एते ग्रहा. दयः सर्वोपरिस्थिते मेठिकाष्ठवनिश्चलतया स्थिते अत एव ध्रुवसंजके ज्योतिर्विशेषे वायुरज्ज्वा बडा गाव इव हलिकतुल्यचक्रवायोः प्रतिनियतसंचारेण कालविशेषैरवधृतगतयः सुमेरोरुपर्युपरिभावेन सत्रिविष्टा भुवीके भ्रमन्ति इत्यर्थः । नन्वेवं सुमेरोरुपरि ज्योतिर्मण्डलस्य भ्रमणे कथं मेरुणा ज्योतिश्चक्रावरणं येन रात्रिदिनव्यवस्थितिरिति चेत्र । वृक्षण सर्यव्यवधानवत् मेरोरेकपार्श्वस्यसूर्यादेः पावान्तरेण व्यवधानसंभवादिति । स्वतीकस्यानाह । माहेन्द्र इति । त्रिदशादयो देवानां जातिभेदाः कल्पायुषः । कल्पो ब्रह्मणो दिनं तदायुषः संकल्पमात्रेण कत्तुं क्षमाः संकल्प. सिद्धाः वृन्दारकाः देवा औपपादिकदेहाः पित्रोः संयोगं विना क्षणमात्रेणोत्पदामानशरीरा इत्यर्थः। महल कस्यानाह । महतीति । महाभतानां
१५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org