________________
२२४
योगवार्तिकम् ।
मेरोश्चतुर्दिशस्तत्र नवसाह सविस्तृतम् । इलावृतं महाभाग चत्वारस्तत्र पर्वताः ॥
इति । एतेन मेरोः पार्श्वद्वये इलावृतस्याष्टादशसाहस्रतया लक्षप्रमाता जम्बुद्वीपस्य सिद्धेति । जम्बूद्वीपस्य वेष्टनं लवणसमुद्रमाह । स खल्विति । अत्र |
जम्बूद्वीपं समावृत्त्य लक्षयेोजनविस्तृतः ।
मैत्रय वलयाकार स्थितः तारोदधिर्बहिः ॥
इति विष्णुपुराणात् । समुद्रस्य द्वीपट्टि गुणत्वं पार्श्वद्वयेन बोध्यम् । ततो द्विगुणा इति । जम्बूद्वीपाद द्विगुणः शाकद्वीप इत्यर्थः । शाकाच्च द्विगुणः कुशद्वीपः । एवंक्रमेण वृद्धिः । समुद्राश्चेति । स्वस्वद्वीपापेक्षया द्विगुणाः समुद्राणां विशेषणत्रयं सर्षपेत्यादि । सर्षपरा शिवन्मध्ये किंचिन्मात्रे च्छूनाः मध्येतरङ्ग बाहुल्यात् । तथा कूलद्वय स्थितैर्विचित्रशैलैरवतंसकल्पैः सहिताः तथा इक्षुरसादितुल्यादका इत्यर्थः । संप्तद्वीपानां समुद्रादिसहितानां मिलित्वा परिमाणमाह । सप्तेति । एते सप्तद्वीपाः समुद्रसहिताः सप्त. समुद्राद्वहिः स्थितेन लोकालोकपर्यन्तेन परिवृताः पञ्चाशयोजनको टिपरिमिता इत्यर्थः । अलोकभूमिसहिता इत्यपि बोध्यम् । समयभूगोलस्यैव पञ्चाशत्को टिपरिमितत्वस्य पुराणेष्ववगमादिति । तदेतदिति । तदेतत्सर्वं भूगोलकं सुप्रतिष्ठितमसंकीर्ण पञ्चाशत्को टिपरिमितस्याण्डस्य मध्ये व्यदं संक्षिप्तम् । इदं च शतकोटिविस्तारमण्डं सप्रावरणसहितमपि प्रकृ तेरणुरंश इत्यर्थः । तदुक्तं विष्णुपुराणे प्रकृतिं प्रकृत्य ।
अण्डाणां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥ इति । सारे च | ब्रह्माण्डमेतत्सकलं ब्रह्मणः क्षेत्रमुच्यते । क्षेत्रज्ञश्च स एवोक्तो विरिचिश्च प्रजापतिः ॥ सहस्रकोटयः सन्ति ब्रह्मण्डास्तिर्यगूर्ध्वगाः । ब्रह्माणो हरयो सद्रास्तत्रतत्र व्यवस्थिताः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org