________________
योगवार्तिकम् ।
२३३
गृहीत्वा भूरादिसप्तले कानुक्त्वा महातलादीनन्यान्त्सप्तलोकानाह । ततो महेति । ततोऽवीचेरध इत्यर्थः । तदेवं चतुर्दश लोका भवन्तीति सूचयति । भूमिरियमष्टमीति । अत्र भूमेरष्टमीत्ववचनात्सर्वाधिः स्थितान्महातलादुपर्युपरि क्रमेण सप्तपातालानीत्यवगन्तव्यम् । संक्षेपतश्चतुर्दशलाकानुक्त्वा विस्तरेण विवक्षुरादी भूल कस्य विस्तारमाह । सप्तद्वीपेति । तस्य राजतेति पूर्व | दिप्रदक्षिणक्रमेणेत्यादिः, दक्षिणभागाकाशस्य वैदूर्यप्रभाव्याप्ततायाः वक्ष्यमाणत्वात् ' श्वेतो रजतवर्णः स्वच्छः स्फटिकवत्प्रतिबिम्बोदाही कुरण्डकं स्वर्णवर्णः पुष्पविशेषः । दक्षिणेति । अस्य सुमेरे ( रुपरि दक्षिणपार्श्व जम्बूनामा वृतः । यतो यत्रामा लवणोदधिवेष्टितो जम्बूद्वीपे जम्बुद्वीपनामेत्यर्थः । तस्येति । निरन्तरं सूर्येण प्रदक्षिणीकरणात्तस्य सुमेरे | रवच्छेदभेदेन रात्रिंदिनसंयुक्तमिवर्त्तते भ्रमति । तथा तस्य मेरोरुत्तरदिशि नीलाव्यास्त्रयः पर्वताः प्रत्येकं द्विसहस्रयोजनविस्तारास्तिष्ठन्ति तेषामवकाशेषु त्रीणि वर्षाणि प्रत्येकं नवयोजन सहस्रविस्ताराणि । तत्रनीलगिरिमैरुलग्नः नीलस्योत्तरे रमणकं श्वेतस्योत्तरं हिरण्मयं शृङ्गवत उत्तरे समुद्रपर्यन्तमुत्तराः कुरव इत्यर्थः । दक्षिणदिश्यपि संनिवेश एवं बोध्यः । सुमेरोः प्राचीना इति । मेरोः पूर्वदिशि तत्संयुक्तोमाल्यवान् पर्वतः तमेव सीमानं कृत्वा समुद्रपर्यन्तं भद्राश्वनामदेशाः तत्र भद्राश्वनामकमेव वर्षम् । एवं मेरोः पश्चिमदिशि तत्संयुक्त गन्धमादनसीमानः समुद्रपर्यन्ताः केतुमालनामदेशा: वर्ष चैकमेव केतुमाल संज्ञक्रमित्यर्थः । मध्य इति । छत्राकार सुमेरोरधोभागे वर्ष मलावृतं चतुर्दिक्षु च पर्वताश्क्त्र पार्श्वस्यावरणवासदव मेरुपाश्वे॑ष्वेव संसक्ता इति । तदेवं जम्बूद्वीपस्य नववर्षाणि प्रोक्तानि पर्वतैः सह समयं जम्बूद्वीपस्य प्रमाणमाह । तदेतदिति । तदेतज्जम्बूद्वीपाख्यस्थानं योजनशतसहस्रमितम् । अतश्च सुमेरोश्चतुर्दिक्षु पञ्चाशत्पञ्चाशयोजनसहस्रेण व्यढं संक्षिप्तं परिसंख्यातमित्यर्थः । सुमेरुमादायेति शेषः । सुमेरोः परिमाणं च विष्णुपुराणे प्रोक्तम् । चतुरशीतिसाहस्रैर्ये । जनैरस्योच्छ्रायः । प्रविष्टः षोडशाधस्तात् द्वात्रिंशन्मर्ध्नि विस्तृतः । मूले षोडशसाहस्रो विस्तारस्तस्य भूभृतः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org