________________
२२२
।
योगवार्तिकम् । प्रत्त्यालाकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २४॥
व्यवहितमावृतं विप्रकृष्टं दूरति । व्याचष्ठे । ज्योतिष्मतीति । ज्योतिष्मती बुद्धिपुरुषान्यतरसाक्षात्काररूपिणी मनसः प्रत्तिः प्रथमपा. दोक्ता तस्या य आलोकस्तत्कालीनो यः सत्त्वप्रकाशस्तं योगी सत्मादार्थषु विन्यस्य च साक्षात्करोतीत्यर्थः । अत्र न्यासमात्रवचनात् तेषु संयमापेक्षा नास्ति चतुयासमात्रेण घटदर्शनविशुद्धसत्त्वप्रतिसन्धानमात्रेणैव सत्मा. दिसाक्षात्कारो भवतीति भावः । परम्परया बुयादिविषयकसंयमसाध्य. त्वेनैव चास्याः सिद्धेः संयमसिद्धिमध्ये निर्वचनमिति ॥
भुवनज्ञानं सूर्य संयमात् ॥ २५ ॥ भुवनशब्दार्थ व्याचष्टे । तत्प्रस्ताव इत्यादिना। भुवनविस्तारः कथ्यतइति शेषः । तत्र चतुर्दशसु लोकेषु व्यक्तेष्वादौ सप्त लोकानाह । सप्त लोका इति। सप्त लोकान् विभजते । तत्रेति । अवीविनाम नरकविशेषः । सर्वलोका. नामधस्थानं तदादाय सुमेरुपृष्ठपर्यन्तं भलीकः । मेरुपृष्ठमारभ्य मेरुपृष्ठोपलक्षितभूलीकस्योपरि ध्रुवपर्यन्तं भुवीकः । तदुपरि क्रमेण पञ्चविधः स्वलीकः । एतेन त्रिलोकव्यवस्थापि दर्शिता। पञ्चानां सामान्यतः स्वीकत्वेनैक्यात् । पञ्चानामवान्तरभेदानाह । माहेन्द्र इत्यादिना । माहेन्द्रो लोकः स्वरितिनामको भूर्भुवीकापेक्षया तृतीयः । एवमुत्तरत्रापि। उक्तव्युत्क्रमेण सप्तलोकानां संग्रहश्लोकं पठति । ब्राह्म इति। जनादित्रिमिको ब्रह्म लोकः । ततोधः प्रजापतिलोको महान महरितिनामा। ततोधः स्वरितिनामा इन्द्रलोकः। ततोधस्तारालोको यौरिति भुव इति चोच्यते। तदधश्च प्रजानां मनुष्याणां लोको भूरितिनामेत्यर्थः। इदानी पथिव्या अधःस्थितान सप्त नरकान् भूलोकांशतयाप्रतिपादति । तत्रेति तत्र भूली के सर्वनरकाधःस्थितादवीचि नरकाटुपर्युपरिस्थिता पमहानरकभूमयो घनादीनामुत्तमोत्तमानाम् आधारा महाकालादिसंज्ञकास्तिष्ठन्तीत्यर्थः। घनाः शिलाशकलादयः पार्थिव पदार्थाः तमश्चान्धकारः । अत्र महानरकशब्दादन्येप्युपनरकाः कुम्भीपाकादयोऽनन्तास्तत्रैव तिष्ठन्तीति प्रतिपादितम्। दुःखवेदनाः दुःखभोगिन आतिप्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org